________________
सू०११२६-११४७ ] नामधातुप्रक्रिया ३१
२०३ नामधातुप्रक्रिया ३१ अथ नामधातुप्रक्रिया ॥ ११२६ नानो य ई चास्य १॥ नाम्न इच्छायामर्थे यः प्रत्ययो भवति तत्सन्नियोगे चाकारस्य ईकारः ॥ आत्मनः पुत्रमिच्छतीति पुत्रीयति । पुत्रीयेत् । पुत्रीयतु । अपुत्रीयत् । इत्यादि ॥ ११२७ यादौ प्रत्यये ओकारौकारयोरवावौ वक्तव्यौ २॥ गां इच्छतीति गव्यति। नावं इच्छतीति नाव्यति । त्वद्यति । मद्यति । युष्मद्यति । अस्मद्यति । धनीयति ॥ ११२८ काम्यश्च ३॥ पुत्रंइच्छति पुत्रकाम्यति गव्याञ्चकार ॥११२९ यकारस्यानपि वा लोपो वाच्यः ४ ॥ गवांचकार । गव्यात् । गव्यिता-गविता । अगव्यीत् अगव्यिष्टाम् अगविष्टाम् अगव्यिषुःअगविषुः ॥ नाव्यात् नाव्यिता-नाविता । अनाव्यीत्-अनावीत् ।। ११३० हसात्तद्धितस्य लोपोये ५॥गार्गीयति । वाच्यति ॥११३१ हसाद्यस्य लोपो वाऽनपि ६ ॥ समिध्यिता समिधिता ॥ ११३२ मान्ताव्ययाभ्यां यो न ७ ॥ किमिच्छति । इदमिच्छति । खरिच्छति ॥ ११३३ करणे च ८॥ नाम्नः करणेथें यः प्रत्ययो भवति ॥ कण्डं करोतीति कण्डूयति । नमस्यति । तपस्यति । वरिवस्यति गुरून् शुश्रूषत इत्यर्थः ॥ ११३४ क्षीरलवणयोस्तुष्णायां यः सुट् च ९॥ क्षीरस्यति । लवणस्यति॥११३५ शब्दादिभ्यो यङ् १०॥ ये (सू० ७७९) शब्दायते । वैरायते । कलहायते । अभ्रायते । मेघायते । कष्टायते ॥ ११३६ ऊष्मबाप्पाभ्यामुद्वमने यङ् वाच्यः ११ ॥ ऊष्माणमुद्रमति ऊष्मायते । बाप्पायते ॥ ११३७ बिर्डित्करणे १२ ॥ नाम्नो भिः प्रत्ययो भवति करणेऽर्थे स च डित् ॥ यकार उभयपदार्थः । घटं करोतीति घटयति । अग्लोपिनो नाङ्कार्यम् । अजवटत् । महान्तं करोतीति