________________
२०२
सारस्वतव्याकरणम् ।
. [वृत्तिः २ जीति-बोभोक्ति । अबोभुजीत्-अबोभोक् ॥ वावदीति-वावक्ति । जाघटीति-जापट्टि ॥ ११२२ ऋकारान्तानामृदुपधानां च यङ्लुकि सति पूर्वस्य रु। रिक रीक आगमा वक्तव्याः ४ ॥रः (सू० ७६८) डुकृञ् करणे । चर्करीति-चरिकरीति-चरीकरीति । चर्कर्तिचरिकर्ति चरीकर्ति । चर्कतः-चरिकृतः-चरीकृतः । चक्रति-चरिक्रति चरीक्रति । अचर्कारीत्-अचरिकारीत् अचरीकारीत् । ववृतीति-वरिवृतीति-वरीवृतीति । वर्वर्ति-वरिवर्ति-वरीवर्ति । अवतीत्-अवरिवृती त्-अवरीवृतीत् ॥ ११२३ रात्सस्य ५॥ रेफादुत्तरस्य सस्यैव लोपो नान्यस्य । अवर्वत्-अवरिवत्-अवरीवत् । अवताम् अवरिवृताम्अवरीवृताम् । वर्वर्ताञ्चकार वरिवर्ताञ्चकार वरीवर्ताञ्चकार। वनीवश्वीति वनीवक्ति । नो लोपः (सू० ७४२) वनीवक्तः वनीवचति । जङ्गमीति जङ्गन्ति । लोपस्त्वनुदात्ततनाम् (सू० ८८६) जङ्गतः । गमा खरे (सू० ७८९) जङ्गमति । धातुग्रहणोक्तं यङ्लुकि वेति केचित् । जङ्गमति जङ्गमीति ॥ ११२४ मो नो धातोः ६॥ धातोर्मकारस्य नकारो भवति झसे पदान्ते वमयोश्च ॥ जङ्गन्मि जङ्गन्वः जगन्मः ॥ ११२५ द्विरुक्तस्य हन्तेः कुत्वं वाच्यम् ७ ॥ जङ्घनीति-जङ्घन्ति जङ्घतः जन्नति । जाहेति-जाहाति जाहीतः जाहति । एवं दाधेतीत्यादि । दादेति दादाति दादत्तः दादति । दादेतु दादेयात् अदादात् । एवं धेट् । दाधेति-दाधाति दाद्धः दाधति । दाधेयात् । अदाधासीत् अदाधात् अदाधत् । धाञ् । दाधाति धत्तः । पितोस्तु । दादेति । दादीतः । दादीहि । दादायात् । अदादासीत् । जहातेः पूर्वस्य दीर्घो वेति केचित् ॥ जहाति ॥ इति यङ्लुप्रक्रिया ॥ ३० ॥ .