________________
२०१
सू० १११३-११२६] यङ्लुक्प्रक्रिया ३० यते । जेगीयते । जेहीयते । पेपीयते । सेषीयते । सेष्ठीयते ।। १११३ घ्राध्मोरी १९ ॥ अनयोरीकारो भवति यङि सति ।। जेघीयते ॥ देध्मीयते ॥ १११४ हन्तेहिंसायांनी वा वाच्यः २० ॥ जेन्नीयते ॥ ञमजपां नुक् (सू० ११०३) १११५ द्विरुक्तस्य हन्तेः कुत्वं वाच्यम् २१॥ जङ्घन्यते॥१११६चायो यङि की वाच्यः २२ ॥ चाय सन्तानपालनयोः चेकीयते ॥ १९१७ कवतेयङि चुत्वाभावो वाच्यः २३॥ कुशब्दे । कोकूयते ॥१११८ शीडो यकृिति ये वक्तव्यः २४ ॥ शाशय्यते । दौक गतौ । डोटौक्यते ॥ तौक गतौ । तोत्रौक्यते ॥ इति यप्रक्रिया ॥ २९ ॥
यङ्लुक्प्रक्रिया ३० ॥ अथ यङ्लुक्प्रक्रिया निरूप्यते ॥१११९ वान्यत्र लुगनुवर्तते १॥ अन्यत्रेत्यच्प्रत्ययसंयोगं विनापि वा यङो लुग्भवति ॥११२० लुकि सति पितिमि वा ईकारो वक्तव्यः २॥ बोभवीति-बोभोति बोभूतः बोभुवति । यङ्लुगन्तं परस्मैपदं हादिवच्चद्रष्टव्यम् हादित्वादपो लुक् द्वित्वमपि ज्ञातव्यम् । बोभूयात् । बोभुवति बोभोतु-बोभूतात् बोभूताम् बोभुवतु । अबोभवीत् । अबोभोत् अबोभूताम् अबोभवुः । बोभवांचकार । बोभूयात् । बोभविता। बोभविष्यति । अबोभवि. ष्यत् । दादेः पे (सू० ७२५) गुणं बाधित्वा नित्यत्वादुक् । अबोभूवीत् अबोभोत् अबोभूताम् अबोभूवुः । पापचीति-पापक्ति पापक्तः पापचति । पापच्यात् । पापचीतु-पापक्तु । झसाद्धिः (स० ८८१) पापग्धि । अपापचीत् । अपापक् । पापचांचकार पापच्यात् । पापचिता पापचिष्यति अपापचिष्यत् । अपापचीत् ॥ ११२१ द्वेः ३॥ द्विरुक्तस्य पिति सार्वधातुके खरेऽपि नोपधाया गुणः । बोभु