________________
२००
सारस्वतव्याकरणम् ।
.:. [वृत्तिः
२
गात्रविनामे । जभतीति जञ्जभ्यते । दह भस्मीकरणे । दन्दह्यते । नो लोपः (सू० ७४२) दन्दश्यते । बम्भज्यते । पश्यतीति पम्पश्यते । पश् बाधनग्रन्थनयोः ॥ ११०४ चरफलो. रुच्चास्य १० ॥ अनयोर्यङि लुकि च सति पूर्वस्य नुगागमो भवति पूर्वात्परस्य अकारस्य उकारः ॥ चञ्चूर्यते । फल निष्पत्तौ । पम्फुल्यते ॥ ११०५ वलयान्तस्य वा नुक ११ ॥ मव स्थौल्ये । ममव्यते मामव्यते । चल कम्पने । चञ्चल्यते-चाचल्यते । दयङ् दाने। दन्दय्यते दादय्यते ॥ ११०६ रीगृदुपधस्य १२ ॥ ऋकारोपधस्य धातोर्यङि सति पूर्वस्य रीगागमो भवति ॥ कित्वादाकाराभावः ।। नृती गात्रविक्षेपे । अतिशयेन नृत्यति नरीनृत्यते नटः ॥ ११०७ अत्र णत्वाभावो वाच्यः १३ ॥ वृतु वर्तने । वरीवृत्यते । गृह उपादाने । जरीगृह्यते ॥ ११०८ ऋत्वतो रीग्वाच्यः १४ ॥
ओवश्चू छेदने । वरीवृश्यते । प्रच्छ ज्ञीप्सायाम् । परीपृच्छयते । कृपू सामर्थे । कृपो रो लः (सू० ८५७) ऋल । चरीकृप्यते । ११०९ वशेर्यङि न संप्रसारणम् १५ ॥ वावश्यते ॥ १११० पदासुध्वंसुभ्रंसुदंशुकस्व पतस्कन्दा यङि लुकि च सति पूर्वस्य नुगागमो वाच्यः १६ ॥ पनीपद्यते । नो लोपः (सू० ७४२) संसु ध्वंसु अधःपतने । सनीस्रस्यते । दनीध्वस्यते । बनीभ्रस्यते । वञ्च वञ्चने । वनीवच्यते । दनीदश्यते । चनीकस्यते । पनीपत्यते । चनीस्कद्यते ॥ १९११ ऋतो रिः १७ ॥ ऋकारस्य रिरादेशो भवति यङि सति ॥ ततो द्वित्वम् । ये (सू० ७७९) चेक्रीयते । चेक्रीयांचके । जेहीयते ॥ १११२ दादेरिः १८ ॥ अपिद्दाधामाङोहाकपिबसोस्थानामिकारो भवति किति किति हसे परे ॥ देदीयते। देदीयांचवे ॥ये (सू०.७७९) देधीयते । मेमी