SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २०४ सारस्वतव्याकरणम् । [ वृत्तिः २ महयति । अममहत् ॥ ११३८ आविष्ठवत्कार्यम् १३ ॥ ११३९ पृथ्वादेरः १४ || पृथ्वादेर्ऋकारस्य रो भवति ञौ परे ॥ पृथुं करोति प्रथयति । म्रदयति । स्थूलं करोति स्थवयति । अङि लघौ हख उपधायाः (सू० ८४५) अतिस्थवत् । दवयति । अदीदवत् । प्रियं करोति प्रापयति । गुरुं करोति गरयति । स्थिरं करोति स्थापयति । ऊदिं करोतीति ऊढयति । रङ् द्विश्च (सू० ८४३)। (सू० ८४४ ) । खरादेः परः ( १०३८) अङि पूर्वस्य दस्य वा जः औडिढत् औजिढत् । ऊढं करोति ऊढयति ॥ वहः कृतक्तौ कृतसंप्रसारे हो दस्तथोर्घः टुभिना ढि ढश्व || ऊढिश्व निर्डित्करणे स धातुर्जेर खरादेर्द्वज औजढश्च ॥ २० ॥ औजढत् ॥ ११४० कर्तुर्यङ् १५ ॥ कर्तुरुपमानादाचारेऽर्थे यङ् प्रत्ययो भवति ॥ श्येन इव आचरतीति श्येनायते काकः । पण्डितायते मूर्खः ॥ १९४९ यङि सलोपो वाच्यः १६ ॥ १९४२ पयसस्तु विभाषया १७ ॥ अप्सरायते । ओजायते । पयायते पयस्यते । सुमनायते || १९४३ नाम्न आचारे कि वाच्यः १८ ॥ कृष्ण इव आचरति कृष्णति । किपो लोपः ॥ १९४४ आचार उपमानात् १९ ॥ कर्माधारयोरुपमानात् यः प्रत्ययो भवति आचारेऽर्थे || अकारस्येकारः । पुत्रीयति शिष्यमुपाध्यायः । प्रासादीयति कुट्याम् ॥ ११४५ भृशादिभ्योऽभूततद्भावे यवाच्यः २० ॥ अभृशो भृशो भवतीति भृशायते । श्यामायते । इत्यादि ॥। १९४६ अश्ववृषयो मैथुनेच्छायां यः प्रत्ययः सुगागमश्च २१ ॥ अश्वस्यति वडवा । वृषस्यति गौः ११४७.
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy