________________
सू०११४८-११६८] आत्मनेपदप्रक्रिया ३२
२०५ सुखादिभ्यो ज्ञापनायां यङ् २२ ॥ सुखं ज्ञापयति सुखायते ॥ इति नामधातुप्रक्रिया ॥ ३१ ॥
___ आत्मनेपदप्रक्रिया ३२ ___ अथात्मनेपदव्यवस्था ॥ ११४८ निविशादेः १ ॥ नीत्याधुपसगंपूर्वकाद्विशादेर्धातोरात्मनेपदं भवति ॥ निविशते ११४९ विपराभ्यां जेः २ ॥ विजयते पराजयते ॥ ११५० समो गमादिभ्यः ३ ॥ संगच्छते ॥ ११५१ गमः परौ सिस्यौ आत्मनेपदे वा कितौ वाच्यौ ४ ॥ लोपस्त्वनुदात्ततनाम् (सू० ८८६) संगसीष्ट-संगंसीष्ट । लोपो हस्खाज्झसे (सू० ८५२) समगत समगस्त । ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । समृच्छते संपृच्छते । स्वृ शब्दोपतापयोः । संखरते संस्वृषीष्ट संखरिषीष्ट । समियते । संशृणुते । संवित्त संविदाते ॥ ११५२ वित्तेरन्तो वा रुद् अति ५ ॥ संविद्रते । संविदते । संपश्यते । 'गम ऋच्छ पृच्छ स्वृ ऋ श्रु विद दृश' एते गमादयः॥१९५३ आङो दोऽनास्यविहरणे ६ ॥ आपूर्वाद्ददातेरात्मनेपदं भवति मुखप्रसारणव्यतिरिक्तेऽर्थे ॥ आदत्ते मुखं व्याददाति । अत्र न ॥ ११५४ क्रीडोऽनुसंपरिभ्यश्च ७॥ अनुसंपरिभ्यः क्रीडतेरात्मनेपदं स्यात् ॥ क्रीड विहारे शब्दे च । अनुक्रीडते । संक्रीडते । परिक्रीडते ॥ ११५५ शब्दे तु न ८॥ संक्रीडति चक्रम् ॥ ११५६ समवप्रोपविभ्यः स्थः ९॥ एभ्यस्तिष्ठतेरात्मनेपदं भवति ॥ सन्तिष्ठते । अवतिष्ठते । प्रतिष्ठते । उपतिष्ठते वितिष्ठते ॥ ११५७ आडो यमहनः १० ॥ आङ्परयोर्यमहनोरास्मनेपदं भवति ॥ आयच्छते । आहते । अकर्मकयोरात्माङ्गकर्मक.योर्वा ॥ आयच्छते पाणिम् । आहते शिरः । अन्यथा परशिर आय