SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०६ सारस्वतव्याकरणम् । [ वृत्तिः २ च्छति । शत्रुमाहन्ति ॥ ११५८ हन्तेरात्मनेपदे सिः किद्वाच्यः ११ ॥ नो लोपः (सू० ७४२ ) आहत । लोपस्त्वनु (सू० ८८६ ) ॥ ११५९ हन्तेः स्याशीर्यादाद्योर्वधादेश आति वा १२ ॥ अवधिष्ट | ११६० उद्विभ्यां तपः १३ ॥ उद्विभ्यां परस्याकर्मकस्यात्माङ्गकर्मकस्य वा तपतेरात्मनेपदं भवति ॥ उत्तपते वितपते पाणिम् । अन्यथा महीं वितपत्यर्कः ||११६१ उदश्च रस्त्यागे १४ ॥ उत्पूर्वाच्चरतेस्त्यागेऽर्थे आत्मनेपदं भवति ॥ धर्ममुच्चरते त्यजती - त्यर्थः ॥ त्यागे किम् । मन्त्रमुच्चरति ॥ १९६२ समस्तृतीयायुक्ताच्च १५ ॥ संपूर्वाच्चरतेस्तृतीयान्तेन पदेन युक्तादात्मनेपदं भवति ॥ अश्वेन संचरते || १९६३ व्यवपरिभ्यः क्रीन ः १६ ॥ एभ्यः क्रीणातेरात्मनेपदं भवति ॥ विक्रीणीते । अवक्रीणीते । परिक्रीणीते ॥ १९६४ शप उपालम्भे १७ ॥ उपालम्भेऽर्थे शपतेरात्मनेपदं भवति ॥ वाचा शरीरस्पर्शनमुपालम्भः । विप्राय शपते । विप्रशरीरं 1 स्पृशति । शपथं करोतीत्यर्थः ॥ उपालम्भे किम् । दुष्टं शपति । शापं ददातीत्यर्थः ॥ ११६५ ज्ञाश्रुस्मृदृशां सान्तानामात् १८ ॥ सप्रत्ययान्तानामेषामात्मनेपदं भवति ॥ यः से ( सू० ८४० ) जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते || १९६६ अनुपसर्गाज्जानातेरात्मगामिनि फले आत्मनेपदं वाच्यम् १९ ॥ गां जानीते ॥ ११६७ कर्मव्यतिहारेऽन्यत्र हिंसादेरात् २० ॥ कर्मव्यतिहारेऽर्थे वाच्ये हिंसार्थान् गत्यर्थान्पठजल्पहसान् विहाय इतरेतरान्योन्यपरस्परपदाभावे सर्वेभ्यो धातुभ्य आत्मनेपदं भवति ॥ परस्परमेकक्रियाकरणं कर्मव्यतिहारः । श्रद्धा आस्तिक्यबुद्धिः । श्रद्धा व्यतिभवते । परस्परं भवतीत्यर्थः । व्यतिस्ते । विवदन्ते वादिनः । अन्यत्रेति किम् । व्यतिनन्ति । व्यतिगच्छन्ति । व्यतिपठन्ति । व्यतिजल्पन्ति । व्यतिहस 1
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy