________________
सू०११६९-११७५] भावकर्मप्रक्रिया ३३
२०७ न्ति । इतरेतरं परस्परं अन्योन्यं वा व्यतिलुनन्ति ॥ ११६८ भुनो मोजने आत्मनेपदं वाच्यम् २१ ॥ भुते ओदनम् । भुनक्ति महीं नृपः ॥ इत्यात्मनेपदव्यवस्थाप्रक्रिया ॥ ३२ ॥
भावकर्मप्रक्रिया ३३ अथ भावकर्मणोर्यकि प्रक्रिया ॥ ११६९ या चतुर्यु १॥ धातोर्भावे कर्मणि च यक् प्रत्ययो भवति चतुर्षु पूर्वोक्तेषु परतः ॥ ककारो गुणप्रतिषेधार्थः ॥ ११७० आइ भुवि कर्मणि २ ॥ अकमकेभ्यो भुवि भावे सकर्मकेभ्यश्च कर्मण्यात्मनेपदं भवति ॥ ये कर्मनिरपेक्षां क्रियामाहुस्ते अकर्मकाः भूएध्आसूशीप्रभृतयः । तदुक्तम् ॥
लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् । शयनक्रीडारुचिदी
त्यर्थ धातुगणं तमकर्मकमाहुः ॥ २१ ॥ भावस्यैकत्वादेकवचनमेव भवति प्रथमपुरुषस्य । भूयते भवता । भूयेत भूयताम् । अभूयत । बभूवे ॥१९७१ स्वरान्तानां हन्ग्रहदशां च भावकर्मणो सिसतासीस्यपामिट् वा इण वक्तव्यः ३॥ वाशब्दात्सेटां धातूनां नित्यमिट् स विकल्पेन णित् । अनिटां धातूनां विकल्पेन इद स नित्यं णित् ॥ एवं च हन्दृशोरनिटोर्वा इट् स च नित्यं णित् । ग्रहधातुस्तु सेट् । ततः परो नित्यमिद स च वा णित् । णित्त्वाद्वृद्धिः । भाविषीष्ट । णित्वाभावे । भविषीष्ट । भाविताभविता । भाविष्यते भविष्यते । अभाविष्यत अभविष्यत ॥११७२ इण्तन्यकर्तरि ४ ॥ धातोस्तनि परे भावे कर्मणि च इण् प्रत्ययो भवति ॥ सेरपवादः। णो वृद्ध्यर्थः ॥११७३ लोप: ५॥ इण्संयोगे