________________
२०८
सारस्वतव्याकरणम् ।
[वृत्तिः २
तनो लोपो भवति ॥ अभावि || अकर्मकोऽपि कदाचित् सकर्मकता
मनुभवति । उक्तं च ।
1
उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारपरिहारप्रहारवत् ॥ २२ ॥ धात्वर्थ बाधते कश्चित् कश्चित्तमनुवर्तते । विशिनष्टि तमेवार्थमुपसर्गगतिस्त्रिधा ॥ २३ ॥ सुखमनुभूयते खामिना । अन्वभावि भवो भवता । अन्वभावि - षाताम् - अन्वभविषाताम् । अन्वभाविषत - अन्यभविषत ॥ ११७४ शीडोsयङ् किति ङिति ये वक्तव्यः ६ ॥ शय्यते । शिष्ये । शायिषीष्ट । शयिषीष्ट । अशायि । अन्वशायि अन्वशा1 यिषाताम् - अन्वशयिषाताम् अन्वशायिषत-अन्वशयिषत ॥ ये कर्म - सापेक्षां क्रियामाहुस्ते सकर्मकाः । यकि । घटः क्रियते देवदत्तेन । त्वं दुःखी क्रियसे रागैः । विरागैः सुख्यहं क्रिये । चक्रे । कारिषीष्ट । कृषीष्ट । कारिता कर्ता । कारिष्यते करिष्यते । अकारिष्यत - अकरिष्यत । अकारि अकारिषाताम् - अकृषाताम् । अकारिषत-अकृषत । चिञ् चयने । चियते । चिच्ये । चायिषीष्ट चेषीष्ट । चायिता - चेता । चायिष्यते चेष्यते । अचायिष्यत-अचेष्यत । अचायि अचायिषाताम् अचेषाताम् । दादेरिः ( सू० १११२) दीयते । ददे ददाते ददिरे ॥ ११७५ आतो युक् ७ ॥ आकारान्ताद्धातोर्युगागमो भवति ञिति णिति च परे ॥ दायिषीष्ट - दासीष्ट । दायिता - दाता । दायिष्यते - दास्यते । अदायि अदायिषाताम् । दाधास्थामित्वम् | अदिषाताम् । धीयते । अधायि अधायिषाताम् अधिषाताम् । स्थीयते । अस्थायि । स्तूयते । तुष्टुवे । अस्तावि अस्ताविषाताम् अस्तोषाताम् हरिहरौ भक्तेन । हन्यते ।
/