________________
सू०२३२-२३९] स्वरान्ता नपुंसकलिङ्गाः ८
यनिमित्तमुपादाय पुंसि शब्दः प्रवर्तते । नपुंसके तदेव स्यादुक्तपुंस्कं तदुच्यते ॥ ३८॥ एक एव हि यः शब्दस्त्रिषु लिङ्गेषु वर्तते । एकमेवार्थमाख्याति उक्तपुंस्कं तदुच्यते ॥ ३९ ॥ पीलुर्वृक्षः फलं पीलु पीलुने न तु पीलवे ।
वृक्षे निमित्तं पीलुत्वं तज्जत्वं तत्फले पुनः ॥४०॥ ग्रामण्या-ग्रामणिना ग्रामणिभ्याम् ग्रामणिभिः । ग्रामण्ये-ग्रामणिने ग्रामणिभ्याम् ग्रामणिभ्यः । ग्रामण्यः ग्रामणिनः ग्रामणिभ्याम् ग्रामणिभ्यः । ग्रामण्यः-ग्रामणिनः ग्रामण्या :-ग्रामणिनोः ग्रामण्याम् । नुमन्तस्यामि दीर्घः । ग्रामणीनाम् । ग्रामण्याम्-ग्रामणिनि ग्रामण्योः-ग्रामणिनोः ग्रामणिषु । हेग्रामणे हेग्रामणि हेग्रामणिनी हेग्रामणीनि ॥ सोमपं कुलं । सोमपे सोमपानि । पुनरप्येवम् । सोमपेन सोमपाभ्याम् सोमपैः इत्यादि । हे सोमप ॥ २३२ हवादेशे संध्यक्षराणामिकारोकारौ च वक्तव्यौ १८॥ सुष्ठुरायो यस्य तत् । सुरि । सुरिणी सुरीणि पुनरप्येवम् । सुरिणा-सुराया। हेसुरेहेसुरि हेसुरिणी हेसुरीणि । एकारान्तो नपुंसकलिङ्गो अतिरैशब्दः । रायमतिक्रान्तमतिरि कुलमिति विग्रहे हवादेशे संध्यक्षराणामिदुतौ इति इखत्वम् । वारिवत्प्रक्रिया । अतिरि अतिरिणी अतिरीणि । पुनरप्येवम् । अतिरया-अतिारणा अतिराभ्याम् अतिराभिः इत्यादि। उकारान्तो नपुंसकलिङ्ग उपगोशब्दः । उपगता गावो यस्येति । उपगु उपगुनी उपगूनि। पुनस्तद्वत् । तृतीयादौ खरे विकल्पः । उपगवा उपगुना इत्यादि अतिरिवत् । औकारान्तो अतिनौशब्दः । अतिनु अतिनुनी अतिनूनि इत्यादि ॥ उकारान्तो मधुशब्दः । तस्यापि खरादौ । नामिनः खरे ( सू० २५५) इत्यादि नुमागमः ॥