________________
६२
सारस्वतव्याकरणम् । [वृत्तिः१ मधु मधुनी मधूनि । पुनरप्येवम् । हेमधो हेमधु इत्यादि । ऋकारान्तः कर्तृशब्दः । कर्तृ कर्तृणी कर्तृणि । पुनरप्येवम् । हेकर्तः-हेकर्तृ हेकर्तृणी हेकवृणि । कर्ता-कर्तृणा इत्यादि ॥ शोभना द्यौर्यस्य तत् सुधु सुधुनी सुधूनि । हेसुद्यो-हेसुद्यु हेसुधुनी । हेसुधूनि । सुधुना-सुद्यवा । इत्यादि सर्वमुन्नेयम् ॥ इति खरान्तनपुंसकलिङ्गप्रक्रिया ॥ ८॥
हसान्ताः पुंलिङ्गाः ९ अथ हसान्ताः पुंलिङ्गाः प्रदश्यन्ते । तत्र हकारान्तः अनडुहूशब्दः । अनडुहू सि इति स्थिते ॥ २३३ पश्चस्वनडुहः १ ॥ पञ्चसु वचनेष्वनडह आमागमो भवति शौ च ॥ २३४ सावनइहः २ ॥ अनडहूशब्दस्य सौ परे नुमागमो भवति ॥ २३५ संयोगान्तस्य लोपः ३ ॥ संयोगान्तस्य लोपो भवति रसे पदान्ते च । हसेपः सेर्लोपः ( सू० १५६. ) नुम्विधिसामर्थ्याद्दत्वाभावः । अनड्वान् अनड्वाही अनड्डाहः । अनड्डाहम् अनडाहौ अनहहः । अनडुहा ॥ २३६ वसां रसे ४ ॥ वस् संस् ध्वंस् भंस् अनडुहू इत्येतेषां रसे पदान्ते च दत्वं भवति । अनडुभ्याम् अनडुद्भिः । अनडुहे अनडुभ्याम् अनडुभ्यः । अनडुहः अनडभ्याम् अनडुब्धः । अनडुहः अनडुहोः अनड्डहाम् । अनडुहि अनड्डहोः । खसे चपा झसानाम् (सू० ८९ ) अनडुत्सु ॥ २३७ धावम् ५॥ अनडहूशब्दस्य धौ परे अमागमो भवति । हेअनन् हेअनड्डाहौ हेअनड्डाहः ॥ गोदुहूशब्दस्य भेदः ॥ २३८ दादेषः ६॥ दादेर्धातोर्हकारस्य घत्वं भवति धातोझसे परे नाम्नश्च रसे पदान्ते च ॥ गोदुध् सि इति स्थिते ॥ २३९ आदिजवानां