SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४० सारखतव्याकरणम्। [वृत्तिः१ शसादौ खरे परे तद्धिते ईपि ईकारे च । मकारवकारान्तसंयोगादुत्तरस्य न भवति । अम्वयुक्ताच्छसादावित्यत्र तद्गुणसंविज्ञानो बहुव्रीहिः । लम्बकर्ण इतिवत् । अतः शसोऽपि हरणम् ॥ अस्था अस्थिभ्याम् अस्थिभिः । अस्ने अस्थिभ्याम् अस्थिभ्यः । अस्नः अस्थिभ्याम् अस्थिभ्यः । अस्नोः अस्नोः अस्नाम् ॥ २२८ बेड्योः १४ ॥ वेत्यव्ययम् । नान्तस्योपधाया इङ्योः परयो अकारस्य लोपो भवति ॥ अस्नि-अस्थनि अस्नोः अस्थिषु ॥ २२९ स्वृणां नपुंसके धौ वा गुणो वक्तव्यः १५॥ इश्च उश्च ऋश्च तेषां वृणाम् । उक्तं हि । संबोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् । माध्यन्दिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः ॥३७॥ 'इउण् ऋलक्' इति पाणिनीयानामिप्रत्याहारः । हेअस्थे हेअस्थि हेआस्थिनी हेअस्थीनि॥ एवं दधिसक्थ्यक्षिप्रभृतयः शब्दाः।। इकारान्तो नपुंसकलिङ्गो वारिशब्दः । वारि वारिणी वारीणि । पुनरप्येवम् । वारिणा वारिभ्याम् वारिभिः। वारिणे वारिभ्याम् वारिभ्यः ।वारिणः वारिभ्याम् वारिभ्यः । वारिणः वारिणोः वारीणाम्। वारिणि वारिणोः वारिषु । हेवारे-हेवारि हेवारिणी हेवारीणि ॥ २३० नपुंसकस्य १६ ॥ नपुंसकस्य हलो भवति खरादौ ॥ नामिनः खरे ( सू० २२५) इति नुमागमः । ग्रामणि ग्रामणिनी ग्रामणीनि । पुनरप्येवम् ।। २३१ टादावुक्तपुंस्कं पुंवद्वा १७ ॥ उक्तपुंस्कं नाम्यन्तं नपुंसकलिङ्गं टादौ खरे परे पुंवद्वा भवति ॥ १ 'प्रामणी पिते पुंसि श्रेष्ठे प्रामाधिपे त्रिषु' पुंलिङ्गतायामप्यत्र प्रामणिशब्दे नपुंसकत्वाच्छ्रेष्ठकुलं गृह्यते।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy