________________
सू० २२२ - २३१] स्वरान्ता नपुंसकलिङ्गाः ८
३९
1
प्रथमाद्वितीययोः कुलशब्दवत्प्रक्रिया । सर्वे सर्वे सर्वाणि । पुनरप्येवम् । शेषं पूर्ववत् । सर्वेण सर्वाभ्याम् सर्वैः । सर्वस्मै सर्वाभ्याम् सर्वेभ्यः । सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः । सर्वस्य सर्वयोः सर्वेषाम् । सर्वस्मिन् सर्वयोः सर्वेषु । हे सर्व सर्वे हे सर्वाणि ॥ अन्यादीनां पञ्चानां विशेषोऽस्ति । अन्य सि इति स्थिते ।। २२२ इत्वन्यादेः ८ ॥ श्तु अन्यादेः । अन्यादेर्गणात्परयोः स्यमोः इतुर्भवति । शकारः सर्वादेशार्थः । उकार उच्चारणार्थः । वावसाने ( सू० २४० ) इति पक्षे दत्वमपि भवति । अन्यत् - अन्यद् अन्ये अन्यानि । पुनरप्येवम् । शेषं सर्ववत् ॥ अन्यतरत् - अन्यतरद् अन्यतरे अन्यतराणि ।। इतरत् - इतरद् इतरे इतराणि ॥ कतरत्- कतरद् कतरे कतराणि ॥ कतमत्-कतमद् कतमे कतमानि । शेषं सर्ववद्रूपम् ॥ प्रथमादयः कुलवत् । प्रथमं प्रथमे प्रथमानि ॥ आकारान्तो नपुंसक - लिङ्गः सोमपाशब्दः । सोमपा सि इति स्थिते ॥ २२३ नपुंसकस्य २ ॥ नपुंसकस्य खो भवति सर्वासु विभक्तिषु परतः । अतोऽम् (सू०२१५) सोमपं सोमपे सोमपानि । हेसोमप । शेषं कुलवत् ॥ इकारान्तोऽस्थिशब्दः ।। २२४ नपुंसकात्स्य मोर्लुक् १० ॥ नपुंसकलिङ्गात्परयोः स्वमोर्लुग्भवति । अस्थि ।। २२५ नामिनः खरे ११ ॥ नाम्यन्तस्य नपुंसकस्य नुमागमो भवति विभक्तिखरे परे । ईमौ ( सू० २१६ ) अस्थिनी अस्थीनि । पुनरप्येवम् || २२६ अच्चास्त्रां शसादौ १२ ॥ अत् चेत्यव्ययम् । अस्मां अस्थ्यादीनां शसादौ नुमागमो भवति पूर्वस्य इकारस्य चाकारादेशो भवति शसादौ खरे परे ॥ शस् आदिर्यस्य सः शसादिः । टादिः । शसादावित्यतद्गुणसं विज्ञानो बहुव्रीहिः । यथा चित्रगुर्बहुधनः । २२७ अल्लोपः स्वरेऽम्वयु क्ताच्छसादौ १३ ॥ नान्तस्योपधाया अकारस्य लोपो भवति