SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३८ सारस्वतव्याकरणम् । [ वृत्ति: १ सारः ॥ रैशब्दस्य सुरेशब्दवत्प्रक्रिया | राः रायौ रायः । हेराः ॥ गोशब्दस्तु पूर्ववत् ॥ नौशब्दस्य ग्लैौशब्दवत्प्रक्रिया | नौः नावौ नाव: । हेनौ : हेनावौ हेनावाः || || इति खरान्त स्त्रीलिङ्गप्रक्रिया ॥ ७ ॥ खरान्त नपुंसकलिङ्गाः ८ 1 अथ खरान्ता नपुंसकलिङ्गाः प्रदर्श्यन्ते । तत्राकारान्तः कुलशब्दः । तस्य प्रथमाद्वितीयैकवचने ।। २१५ अतोऽम् १ ॥ अतः अम् । अकारान्तान्नपुंसकलिङ्गात्परयोः स्यमोरम् भवत्यधैौ । अमो ग्रहणं लुग्व्यावृत्त्यर्थम् । अम्शसोरस्य ( सू० १२६ ) कुलम् ॥ २१६ ईमौ २ ॥ नपुंसकलिङ्गात्पर औ ईकारमापद्यते । अइ ए ( सू० ४३ ) कुले ॥ २१७ जश्शसोः शिः ३ ॥ नपुंसकलिङ्गात्परयोर्जशशसोः शिर्भवति । शकारः सर्वादेशार्थः ॥ २१८ गुरुः शिच्च सर्वस्य वक्तव्यः ४ ॥ षष्ठीनिर्दिष्टस्येत्यस्यापवादः ॥ २१९ नुमयमः ५ ॥ नुम् अयमः । नपुंसकस्य नुमागमो भवति शौ परे । यमप्रत्याहारान्तस्य न भवति ।। २२० मिदन्त्यात्स्वरात्परो वक्तव्यः ६ ॥ उकार उच्चारणार्थः । मकारः स्थाननियमार्थः ॥ २२१ नोपधायाः ७ ॥ नः उपधायाः । नान्तस्योपधाया दीर्घो भवति शौ परे धिवर्जितेषु पञ्चसु परेषु नामि च ॥ नोपधाया इत्यत्र छन्दसि तु भवतीति नियमात्संधिः ॥ छन्दोवत्सूत्राणि भवन्तीति वचनात् । कुलानि । पुनरपि कुलम् कुले कुलानि । शेषं देववत् । कुलेन कुलाभ्याम् कुलैः । कुलाय कुलाभ्याम् कुलेभ्यः । कुलात् कुलाभ्याम् कुलेभ्यः । कुलस्य कुलयोः कुलानाम् । कुले कुलयोः कुलेषु । हेकुल हेकुले हेकुलानि ॥ एवं मूलफलपत्रपुष्पकुण्ड कुटु• म्बादयः ॥ सर्वादीनाम कत्रान्तानामन्या दिपञ्चशब्दव्यतिरिक्तानां 7
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy