________________
सू०६६२-६८१] तद्धितप्रकरणम् १७
११७ यतमः । ततमः ॥ ६६२ संख्येयविशेषावधारणे द्वित्रिभ्यां तीयः १०६ ।। द्वयोः संख्यापूरको द्वितीयः॥६६३ त्रेःसंप्रसारणं सखरस्य १०७ ॥ त्रयाणां संख्यापूरकस्तृतीयः ॥ ६६४ षट्चतुरोः स्थः १०८ ॥ षण्णां संख्यापूरकः षष्ठः। ष्टुभिः ष्टुः ( सू० ७९) चतुर्णा संख्यापूरकश्चतुर्थः ॥ ६६५ पश्चादेर्मः १०९ ॥ पञ्चमः । सप्तमः । अष्टमः । नवमः । दशमः । इत्यादि ॥ ६६६ एकादशा. देडः ११० ॥ ६६७ द्वित्र्यष्टकानां द्वात्रयोष्टैकाः १११ ॥ प्राक्शतादनशीतिबहुव्रीह्योरिति वक्तव्यम् ॥ एकेनाधिका दश एकादश। एकादशानां संख्यापूरक एकादशः-एकादशी । द्वादशः-द्वादशी। त्रयोदशः-त्रयोदशी । चतुर्दशः-चतुर्दशी । सप्तदशः-सप्तदशी । अष्टादशः-अष्टादशी ॥ ६६८ विंशत्यादेवों तमट ११२ ॥ विंशतेः संख्यापूरकः विंशतितमः । पक्षे ॥ ६६९ विशतेस्तिलोपः ११३ विंशः॥ ६७० चत्वारिंशदादौ वा ११४ ॥ द्विचत्वारिंशत्-द्वाचत्वारिंशत् । त्रिचत्वारिंशत्-त्रयश्चत्वारिंशत् । अष्टचत्वारिंशत्-अष्टाचत्वारिंशत् । अनशीतीति विशेषणाद्यशीतिः । यशीतिः । अष्टाशीतिः ॥ ६७१ शतादेर्नित्यम् ११५ ॥ शततमः ॥ ६७२ कतिकतिपयाभ्यां थः ११६॥ कतिथः । कतिपयथः ॥ ६७३ संख्यायाः प्रकारे धा ११७ ॥ संख्यावाचकाच्छब्दात्प्रकारेऽर्थे वाच्ये सति धाप्रत्ययो भवति ॥ द्विप्रकारं द्विधा । त्रिप्रकार त्रिधा। चतुष्प्रकारं चतुर्धा ॥ ६७४ गुणोष्ण च ११८ ॥ धापत्ययान्तस्य शब्दस्य गुणो वा भवति अण् च वा भवति ॥ द्विप्रकारं द्वेधा । त्रिप्रकारं त्रेधा । धाप्रत्ययान्तात्वार्थेऽण् । द्विधा एव द्वैधम् । त्रैधम् ॥ ६७५ एकाध्यमुवा ११९ ॥ ऐकध्यम् । एकधा ॥ ६७६ क्रियाया आवृत्तौ कृत्वसुच् १२० ॥ पश्चवारान्