________________
११६
सारस्वतव्याकरणम् ।
[ वृत्ति: १
यविष्ठः । अल्पस्य कनादेशः । अ० - अल्पः कनीयान् - कनीयसी कनिष्ठः || ६५७ इलोपो ज्याशब्दादीयसः १०१ ॥ ज्याशब्दादीयस ईकारस्य लोपो भवति ॥ वृद्धस्य ज्यादेशः । अतिश ० वृद्ध इति ज्यायान् - ज्यायसी - ज्येष्ठः ज्येमा । उत्तमस्य वरादेशः । अतिश० उत्तम इति वरीयान् - वरीयसी - वरिष्ठः- वरिमा । दीर्घस्य द्राघादेशः । अतिश • दीर्घ इति द्राघीयान् द्राघीयसी - द्राघिष्ठः - द्राघिमा । प्रशस्यस्य श्रादेशः । अतिश० प्रशस्यः श्रेयसी श्रेष्ठः श्रेमा || ६५८ बहोरिष्ठे यिः १०२ ॥ बहुशब्दात्परस्य इष्ठे वर्तमानस्येकारस्य यिर्भवति 'ईयस ईकारस्य लोपश्च || बहोर्भूरादेशः । अतिश ० बहुरिति भूयान् भूयसी - भूयिष्ठः भूमा । क्षिप्रस्य क्षेपादेशः । अतिश० क्षिप्रः क्षेपीयानू-क्षेपीयसी - क्षेपिष्ठः । क्षुद्रस्य क्षोदादेशः । अतिश० क्षुद्रः क्षोदीयान - क्षोदीयसी - क्षोदिष्ठः ।। ६५९ किमोऽव्ययादाख्याताच्च तरतमयोराम्वक्तव्यः १०३ || अतिश० कुतः कुतस्तरां परमाणवः । अतिश० कुत इति कुतस्तमां तेषामारम्भकत्वम् । उच्चैस्तरां गायति । अतिश० उच्चैरिति उच्चैस्तमाम् । नीचैस्तराम् । नीचैस्तमाम् । किंतराम् । किंतमाम्। अतिश० पठति इति पठतितराम् पठतितमाम् । अतिश पचति इति पचतितराम्-पचतितमाम् || ६६० परिमाणे दघ्नादयः १०४ ॥ परिमाणेऽर्थे वाच्ये सति दन्नट् द्वयसट् मात्रट् इत्येते प्रत्यया भवन्ति ॥ जानु परिमाणं यस्य तज्जानुदघ्नं जलम् । शिरः परिमाणं यस्य तच्छिरोद्वयसम् । पुरुषः परिमाणं यस्य तत्पुरुषमात्रं जलम् ॥ ६६१ द्वयोर्बहूनां चैकस्य निर्धारणे किमादिभ्यो उतरडतमौ वक्तव्य १०५ ॥ कतरो भवतोर्मध्ये काण्वः । कतरः । कतमो भवतां तान्त्रिकः । क इति कतमः । भवतो यतरस्तार्किकस्ततर उद्धातु । य इति यतरः । स इति ततरः ।
०