SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सू० ६५३-६६१] तद्धितप्रकरणम् १७ ११५ लज्जा संजाता यस्यासौ लज्जितः । त्रपा संजाता यस्यासौ त्रपितः । क्षुधा संजाता यस्यासौ क्षुधितः॥६५३ तरतमेयस्विष्ठाः प्रकर्षे ९७॥ अतिशयेऽर्थे तरः तमः इयसुः इष्टः इत्येते प्रत्यया भवन्ति । अतिशयेन कृष्णः कृष्णतरः । अतिशयेन कृष्णः कृष्णतमः । अतिशयेन शुक्लः शुक्लतरः शुक्लतमः ।। ६५४ ईयस्विष्टौ डिताविति वक्तव्यौ ९८ ॥ अतिशयेन लघुर्लघीयान् । अतिश० लघुर्लघीयसी । अतिश० लघुर्लधिष्ठः । अतिश० पापी इति पापीयान् । अतिश० पापिनी इति पापीयसी । अतिश० पापी इति पापिष्ठः॥ ६५५ विन्मतुवतुतप्रत्ययानांलोपश्च इष्ठादौ ९९॥ मतिर्विद्यते यस्यासौ मतिमान् । अतिश० मतिमान् इति मतिष्ठः । अतिश० मायावी इति मायिष्ठः । अतिश० धनवान् इति धनिष्ठः । अतिश० कर्ता इति करिष्ठः ॥६५६ गुर्वादेरिष्ठेमेयस्सु गरादिष्टयलोपश्च १००॥ इष्ठेमेयस्सु परतो गुर्वादेर्गरादिरादेशो भवति टेरलोपः ॥ गुरोर्गरादेशः । अतिश० गुरुर्गरीयान् गरीयसी गरिष्ठः । गुरोर्भावो गरिमा । प्रियस्य प्रादेशः । अतिश० प्रिय इति प्रेयान्-प्रेयसी-प्रेष्ठः। लोहितादेर्दिडिमन् ( सू० ६०२ ) प्रेमा । स्थूलस्य स्थवादेशः । अतिश० स्थूलः स्थवीयान् स्थवीयसी स्थविष्ठः स्थेमा । स्थिरस्य स्थादेशः । स्थेयान् स्थेयसी-स्थेष्ठः-स्थेमा । बहुशब्दस्य बहादेशः । अतिश० बहुः बंहीयान् बंहीयसी-बंहिष्ठः । तृप्रशब्दस्य त्रपादेशः । त्रपिष्ठः । इखस्य हखादेशः हसिष्ठः । वृद्धस्य वर्षादेशः । अतिश० वृद्धः वर्षीयान्-वर्षियसी-वर्षिष्ठः । अन्तिकबाढयोर्नेदसाधौ । अतिश० अन्तिकः नेदीयान्- नेदीयसी-नेदिष्ठः । अतिश० बाढः साधीयान-साधीयसीसाधिष्ठः । दूरस्य दवादेशः। अतिश० दूरः दवीयान्-दवीयसी-दविष्ठः । युवनशब्दस्य यवादेशः । अतिश० युवा यवीयान्-यवीयसी
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy