SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११८ सारस्वतव्याकरणम्। [वृत्तिः १ भुक्ते इति पञ्चकृत्वो भुङ्क्ते । सप्तकृत्वः ॥ ६७७ द्वित्रिचतर्यः सुः १२१ ॥ द्वित्रिचतु:शब्देभ्यः सुप्रत्ययो भवति ॥ द्विवारमिति द्विः। त्रिवारमिति त्रिः । चतुः। द्विरुक्तम् । निरुक्तम् ॥ ६७८ बहादेः कारकाच्छस् १२२ ॥ बहादेः शब्दाच्छस्प्रत्ययो भवति ॥ बहुवारानिति बहुशः । अल्पशः । शतशः । सहस्रशः । लक्षशः । कोटिशः । इत्यादि । बहुशो धनं ददाति ॥ कारकात्किम् । बहूनां खामी ॥ ६७९ तयायडौ संख्याया अवयवे १२३ ॥ संख्याया अवयवे वाच्ये सति तयायडौ प्रत्ययौ भवतः ॥ द्वौ अवयवौ यस्य तहितयम् । त्रितयम् । द्वौ अवयवौ यस्य तवयम् । त्रयम् । चतुष्टयी ॥ ६८० अल्पार्थे कुटीशमीशुण्डाभ्यो रः १२४ ॥ अल्पा कुटी इति कुटीरः । अल्पा शमी इति शमीरः । अल्पा शुण्डा इति शुण्डारः ॥ ६८१ स्त्रीपुंसोनपत्रणौ १२५ ॥ स्त्रैणम् । पौंस्नम् । शेषा निपात्याः कत्यादयः । आदिशब्दात् या संख्या येषां ते यति सा संख्या येषां ते सति । का संख्या येषां ते कति । लोकाच्छेषस्य सिद्धिः ॥ ॥ इति सारखतव्याकरणे तद्धितप्रकरणम् ॥ १७ ॥ इति प्रथमा वृत्तिः समाप्ता।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy