________________
श्रीः तिङन्तप्रकरणम् ।
द्वितीया वृत्तिः।
भ्वादिषु परस्मैपदिनः १ लक्ष्मीनृसिंहौ प्रणिपत्य काश्यां बुधांश्च पद्माकरभट्टमुख्यान् । सारस्वतीयां च तिबादिवृत्तिं क्रमाल्लिखेयं गणपप्रसादात् ॥१॥ अथाख्यातप्रक्रिया निरूप्यते ॥ ६८२ धातोः १॥ वक्ष्यमाणाः प्रत्यया धातोर्जेयाः ॥ ६८३ भ्वादिः २॥ भूसत्तायामित्यादिगणो धातुसंज्ञो भवति ॥ स च त्रिविधः । आत्मनेपदी परस्मैपद्युभयपदी चेति ॥ ६८४ आदनुदात्तडितः ३ ॥ अनुदान्तो डितश्च धातोरादित्यात्मनेपदं भवति ॥ ६८५ जित्वरितेतश्च उमे ४॥ जितः खरितेतश्च धातोरात्मनेपदपरस्मैपदे भवतः॥ आत्मगामि चेत्फलमात्मनेपदं परगामि चेत्फलं परस्मैपदं प्रयोक्तव्यम् । अन्वर्थानुगतार्थसंज्ञाबलत्वात् ॥ ६८६ परतोऽन्यत् ५॥ पूर्वोक्तनिमित्तविधुरादन्यस्माद्धातोः परस्मैपदं भवति ॥ ६८७ नव परस्मैपदानि ६ ॥ तिबादीनामष्टादशसंख्याकानामाद्यानि नव वचनानि परस्मैपदसंज्ञानि भवन्ति ॥ पराण्यात्मनेपदानि ॥ ६८८वर्तमाने ७॥ प्रारब्धापरिसमाप्तक्रियोपलक्षितः कालो वर्तमानस्तस्मिन्वर्तमानेऽभिधेये तिबादयः प्रत्यया भवन्ति ॥ तत्रैकवचनादीनि व्याक्रियन्ते ॥
१ अस्य तिवादेः पाणिनीयानां लडिति संज्ञा ।