________________
सारस्वतव्याकरणम् । [वृत्तिः २
॥ परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनानि । प्रथमः तिप् तस्
अन्ति मध्यमः सिप् थस् उत्तमः मिप् वस् मस्
॥ आत्मनेपदानि ॥ प्रथमः ते आते अन्ते मध्यमः से
आथे ध्वे उत्तमः ए
वहे महे ६८९ नानि च युष्मदि चासदि च भागैः ८॥ नामादिखूपपदेषु प्राप्तेषु सत्सु त्रिभिर्भागैरेते प्रत्यया भवन्ति (ते च त्रयो भागा यथाक्रमं प्रथममध्यमोत्तमसंज्ञा भवन्ति ) ॥ नाम्नि प्रयुज्यमाने शब्दादप्रयुज्यमानेऽपि प्रथमपुरुषः । युष्मदि मध्यमः ॥ तथैवास्मद्युत्तमः । भूसत्तायाम् ॥ ६९० कर्तरि पं च ९॥ परस्मैपदं कर्तरि भवति ॥ चकारादात्मनेपदमपि ॥ तत्र भू इत्येतस्मात्परस्मैपदिनोs. विकरणात्कर्तरितिबादयो योज्यन्ते ॥ तत्रैकत्वविवक्षायां प्रथमपुरुपैकवचने भू तिप् इति स्थिते । पकारः । पित्कार्यार्थः ॥ ६९१ अपकर्तरि १० ॥ धातोरप्प्रत्ययो भवति कर्तरि विहितेषु त्यादिषु चतुर्पु दिपपर्यन्तेषु परतः ॥ पकारो विकरणभेदज्ञापनार्थों गुणार्थश्च ॥ प्रकृतिप्रत्ययान्तः पतति यः प्रत्ययः स विकरणः ॥ ६९२ गुणः ११॥ धातोरन्त्यभूतस्य नामिनो गुणो भवति अवादेशश्च । भवति । व्यर्थविवक्षायां तस् ॥ ६९३ अपित्तादिर्डित् १२ ॥ पकारेतं तादिकं च विहायान्यः प्रत्ययो कित्संज्ञो भवति ॥ अन्य इति किम् । इडामायवर्जितो दशलकारान्तःपाती बित् । आदिश