________________
सू० ६९४-७०३ ] भ्वादयः परस्मैपदिनः १
१२१
ब्दात्सीसिग्रहणम् ॥ ६९४ क्वित्यमुसि १३ ॥ किति किति च परे धातोर्गुणो न भवति युसं वर्जयित्वा ॥ कृतद्विर्वचनादुसि परे तु गुणो भवति ॥ ततो ङित्वात्तसि गुणप्रतिषेधेऽप्यप्प्रत्ययनिमित्तो गुणो भवत्येव ॥ सोर्विसर्गः (सू० १२४ ) भवतः । बहुर्थविवक्षायां भव अन्ति इति स्थिते ॥ ६९५ अदे १४ ॥ अकारस्य लोपो भवति अकारे एकारे च परे ॥ अदे इत्यत्र अकारैकारौ तिबादिप्रत्ययस्येत्यर्थः । भवन्ति । भवसि भवथः भवथ ॥ ६९६ व्मोरा १५ ॥ अकारस्य आत्वं भवति वकारे मकारे च परे । भवामि भवावः भवामः। स राजा धार्मिको भवति । त्वं साधुर्भवसि। अहमात्मविद्भवामीत्यादि ज्ञेयम् ॥ ६९७ अव्यवधानाच पुरुषवि. शेषः १६ ॥ यस्य क्रियापदेन व्यवधानं नास्ति ततः पुरुषविशेषः । अत्र व्यवधानं सूत्रस्थं ग्राह्यं न तु वाक्यस्थम् । सूत्रक्रमेण पुरुषप्रयोगो भवति ॥ साधु स च त्वं च भवथः ॥ अहं त्वं स च पण्डिता भवामः । भूमाप्तौ आत्मनेपदी। तस्मातेप्रभृतीनि नव वचनानि प्रयोज्यानि । अब्गुणावः । भवते ॥ ६९८ आदाथ ई १७ ॥ आकारात्परस्य अथ्संबन्धिन आकारस्य ईकारो भवति ॥ भवेते भवन्ते । भवसे भवेथे भवध्वे । अदे (सू० ६९५) भवे भवावहे, भवामहे । स श्रियं भवते ॥ ६९९ विधिसंभावनयोः १८॥ विधिः कर्तव्यार्थोपदेशः संभावनं कल्पनमूहस्तत्र यादादयः प्रत्यया भवन्ति ॥ लिडिति चैषां संज्ञा पाणिनीयानाम् ॥
॥परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनानि । प्रथमः यात् याताम्
युस्