________________
सू० ४११-४२१] कारकप्रक्रिया १५
क्षमस्व भो दुराराध्य भगोस्तुभ्यं नमोऽस्तु ते ।
अधीष्व भो महाप्राज्ञ घातयाघोः स्वघरसरम् ॥ ७२ ॥ ४११ शेषाः कार्ये ४॥ कर्तृसाधनयोर्दानपात्रे विश्लेषावधौ संबन्ध आधारभावयोः शेषा विभक्तयो द्वितीयाद्या एष्वर्थेषु भवन्ति । कार्ये कर्मकारके उत्पाद्ये आप्ये संस्कार्ये विकार्ये च द्वितीया विभक्तिर्भवति ॥ ४१२ कर्तुरीप्सिततमं कर्म ५॥ कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् ॥ हरिं भजति ॥ ४१३ तथा युक्तं चानीप्सितम् ६ ॥ ईप्सिततमवक्रियया युक्तमनीप्सितमपि कारक कर्मसंज्ञं स्यात् ॥ तच्चानीप्सितं द्विविधम् । द्वेष्यमितरच्च ॥ विषं भुते । ग्रामं गच्छंस्तृणं स्पृशति ॥ तच्च कर्मकारकं चतुर्विधम् । उत्पाद्यं आप्यं संस्कार्य विकार्य च ॥ उत्पत्त्यर्थमुत्पाद्यं वा यदभूत्वा भावि तदुत्पाद्यम् ॥ यत्सिद्धमेव प्राप्यते तदाप्यम् ॥ संस्कारो नाम प्राक्तनकर्मजो गुणः कश्चिद्गुणातिशयो वा । गुणाधानं मलापकर्षों वा। इति चतुर्विधः संस्कारः । संस्कारमहतीति संस्कार्यम् ॥ विकारो नाम पूर्वावस्थापरित्यागेनावस्थान्तरप्राप्तिः ॥
कटं करोति कारूको रूपं पश्यति चाक्षुषः ।
राज्यं प्राप्नोति धर्मिष्ठः सोमं सुनोति सोमपाः॥७३॥ . कटादिकमुत्पाद्यादि चतुर्विधं कर्म ॥ गुणातिशयः संस्कार्यम् ।। त्रीहीन्यवान्वा प्रोक्षति । प्रोक्षणेन व्रीहिषु कश्चिद्गुणातिशयो जन्यते ।। गुणाधानमलापकर्षयोरुदाहरणम् ॥ वस्त्रं रञ्जयति देवदत्तः । रजको वस्त्रं क्षालयति ॥
अभिसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयानेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥७४ ॥ अभितोग्राम सर्वतोग्रामं नदी वहति ॥ धिग्देवदत्तं देवदत्तस्य