SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ८२ सारस्वतव्याकरणम् । [वृत्तिः १ उच्चैः नीचैरित्यादीनि ॥ सकलकारकभेदशून्यं वस्तु सत्ता ॥ लिङ्गादयोऽपि प्रथमार्था इति केचित् ॥ आदिशब्दाल्लिङ्गवचनपरिमाणमात्रेऽपि प्रथमा ॥ कृष्णः श्रीः ज्ञानम् ॥ वचने । एकः द्वौ बहवः ॥ परिमाणे खारी द्रोणः आढकम् ॥ अष्टमुष्टि भवेत्किचित्किचिदष्टौ च पुष्कलम् । पुष्कलानि च चत्वारि आढकं परिकीर्तितम् ॥ ६७ ॥ चतुर्भिराढकोणः खारी षोडशभिश्च तैः । तत्सब्रह्म । रविरिव राजते राजा रोषात्कुमारी रोख्यते । बोभुज्यते भुवं भूपालः प्रागास्तां रामलक्ष्मणौ ॥ ६८॥ मनसि वचसि काये पुण्यपीयूषपूर्णा स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणन्पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ६९ कुमाराः शेरते स्वैरं रोरूयन्ते च नारकाः । जेगीयन्ते च गीतज्ञा मेम्रीयन्ते रुजार्दिताः॥ ७० ॥ ४०९ आमत्रणे च २॥ आमन्त्रणे अभिमुखीकरणे प्रथमा विभक्तिर्भवति ॥ मां समुद्धर गोविन्द प्रसीद परमेश्वर । कुमारौ स्वैरमासाथां क्षमध्वं भो तपस्विनः ॥ ७१ ॥ ४१० भोस् भगोस् अघोस् ३ ॥ एते शब्दा निपात्यन्ते घिविषये ॥ भवद्भगवदघवच्छब्दानां भोस् भगोस् अघोसू इत्येतच्छब्दरूपत्रयं क्रमेण निपात्यते ॥
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy