SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सू० ४०३-४१०] कारकप्रक्रिया १५ ८१ अर्धजरती युवती ॥ प्रथमं सूर्योऽञ्चति यस्यां सा प्राची ॥ पश्चादञ्चति यस्यां सा प्रतीची ॥ उदीची ॥ नृशब्दस्य णीपप्रत्ययो भवति ॥ ४०३ णीपि परे नुर्बुद्धिर्वाच्या ४३ ॥ नारी । दारशब्दो नित्यं बहुवचनान्तः पुंलिङ्गः । दाराः । दारान् । दारैः । दारेभ्यः । दारेभ्यः । दाराणाम् । दारेषु ॥ ४०४ वोर्गुणात् ४४ ॥ उकारान्ताद्गुणवाचिनो वा स्त्रियामीपूप्रत्ययो भवति ॥ पट्टी - पटुः ॥ मृद्वी- मृदुः ॥ तन्वी-तनुः ॥ ४०५ खरुसंयोगोपधान्न ४५ ॥ खरुः ।। पाण्डुः ।। ४०६ उत ऊः ४६ ॥ उकारान्ताद्वा ऊप्रत्ययो भवति ॥ पङ्गुः पङ्गुः ॥ वामोरु: - वामोरूः ॥ वाशब्दाद्रज्ज्वादौ न भवति । रज्जुः । धेनुः ॥ ४०७ यूनस्तिः ४७ ॥ युवन्शब्दास्त्रियां तिप्रत्ययो भवति । युवतिः ॥ एभ्यो नामत्वात्स्यादयः ॥ आवन्तात् । आपः ( सू० १९६ ) इति । ईबन्तात् हसेपः सेर्लोपः ( सू० १५६ ) इति सिलोपः ॥ इति स्त्रीप्रत्ययप्रक्रिया ॥ १४ ॥ कारकप्रक्रिया १५ अथ विभक्त्यर्थो निरूप्यते ॥ तत्र क्रियासिद्धयुपकारकं कारकम् । तच्च षड्विधम् ॥ कर्ता कर्म च करणं संप्रदानं तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ॥ ६५ ॥ उक्तानुक्ततया द्वेधा कारकाणि भवन्ति षट् । उक्ते तु प्रथमैव स्यादनुक्ते तु यथाक्रमम् || ६६ ॥ तानि विभक्तिरित्यभिधीयन्ते ॥ ४०८ लिङ्गार्थे प्रथमा १ ॥ धातुप्रत्ययातिरिक्तमर्थवच्छब्दरूपं लिङ्गं तस्यैवार्थे सन्मात्रे प्रथमा विभक्तिर्भवति ॥ लिङ्गार्थे प्रथमा । एतस्य सूत्रस्येमान्युदाहरणानि ६
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy