________________
सारस्वतव्याकरणम् । [वृत्तिः १ प्राणिस्थमद्रवं मूर्त स्वाङ्गं स्यादविकारजम् ।
तत्र दृष्टमतत्स्थं चेस्थितं तद्वच्च तादृशि ॥ ६४ ॥ पूर्वार्धस्य प्रत्युदाहरणानि ॥ सुमुखा शाला अप्राणिस्थत्वात् ।। सुस्वेदा द्रवत्वात् ॥ सुज्ञाना अमूर्तत्वात् ॥ सुशोफा विकारजत्वात् ।। उत्तरार्धस्योदाहरणानि ॥ सुकेशी सुकेशा वा रथ्या। अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् ॥ सुस्तनी-सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् ॥ खाङ्गत्वेऽपि वाशब्दस्य व्यवस्थितत्वात् । ओष्ठादिषु विकल्पः । वदनादिषु च वक्तव्यः । बिम्बोष्ठी-बिम्बोष्ठा । चारुकर्णी-चारुकर्णा । समदन्ती-समदन्ता । पद्मवदना । मृगनयना ।। ३९८ नखमुखयोश्व संज्ञायां नेप ३८ ॥ शूर्पनखा । गौरमुखा ॥ ३९९ नासिकाशब्दात्केवलानेप ३९॥ नासिका ॥४०० कृदिकारादक्तेरीप वा वक्तव्यः ४०॥ अङ्गुली-अङ्गुलिः॥धूली-धूलिः ।। आजी-आजिः ॥ अक्तेरिति विशेषणात्कृतिः ॥ भूतिः ॥ ४०१ ऐच. मन्वादेः ४१ ॥ मन्वादेर्गणास्त्रियामीप्प्रत्ययो भवति ऐकारादेशश्च ॥ चकारान्मनोप्टेरौ वा ॥ आदिशब्दान्मन्वनिवृषाकपिपूतक्रतुकुसितकुसिदा ग्राह्याः ॥ मनोर्भार्या मनायी-मनावी । अत्र विक
पेन पक्षे मनुः ॥ अग्नेर्भार्या अनायी ॥ पूताः क्रतवो यस्येति पूतक्रतुः । पूतक्रतोर्भार्या पूतक्रतायी । इत्यादि ॥ ४०२ पत्यादयः ४२ ॥ पत्यादयः शब्दा निपात्यन्ते ॥ पाणिग्रहणकर्ता पतिः तस्य स्त्री पत्नी ॥ भर्तृयोगे एव । अन्यत्र गवां पतिः स्त्री ॥ समानः पतिर्यस्याः सा सपत्नी ॥ भर्तृयोगे एव ॥ अन्तर्वनी। अन्यत्र अन्तर्वती ॥ पतिवनी सभर्तृका । अन्या पतिमती । सखी अशिश्वी
१ अद्रवं मूर्तिमत्खाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च तेन चेत्तत्तथायुतम् ॥' को. पा.