________________
७९
सू० ३८४-४०२] स्त्रीप्रत्ययप्रक्रिया १४ योपाध्यायायक्षत्रियेभ्यो वा ॥ ३८४ अर्यक्षत्रियाभ्यां वा स्वार्थे २४ ॥ अर्याणी अर्या ॥ ३८५ हिमारण्ययोमहत्त्वे २५ ॥ महद्धिमं हिमानी । महदरण्यमरण्यानी ॥ ३८६ यवादोषे २६ ॥ दुष्टो यवो यवानी ॥ ३८७ यवनाल्लिप्याम् २७॥ यवनानां लिपिर्यवनानी ॥ ३८८ ईपुसमाहारे गुणश्च २८ ॥ त्रयाणां समाहारः त्रयी ॥ ३८९ पुंयोगेच २९ ॥ पुंयोगे च स्त्रियामीप्प्रत्ययो भवति ॥ शूद्रस्य भार्या शूद्री । गणकी ॥ ३९० गोपालिकादीनां न ३०॥ गोपालिका पशुपालिका ॥ ३९१ सूर्याद्देवतायां चाप् ३१ ॥ सूर्यस्य स्त्री देवता सूर्या । अन्या सूरी ॥ ३९२ जातेरयोपधात् ३२ ॥ जातिवाचिनोऽयकारोपधादकारान्तास्त्रियामीप्प्रत्ययो भवति अस्त्रीविषयादिति वाच्यम् । तेन मक्षिका बलाका इत्यादौ न ॥ ३९३ गवयहयमुकयमत्स्यमनुष्याणां न निषेधः ३३ ॥ गवयी इत्यादि । शूकरी हंसी कुक्कुटी ब्राह्मणी । अयकारोपधग्रहणात्क्षत्रिया वैश्या ।। ३९४ शूद्राजातौ न ३४ ॥ शूद्रस्य जातिः शूद्रा ॥ ३९५ महत्पूर्वोत्तु ईप ३५ ॥ महाशूद्री आभीरजातिः ॥ पुंयोगे च ॥ महाशूद्रस्य भार्या महाशूद्री ॥ ३९६ प्रथमवयोवाचिनोऽत ईप् वक्तव्यः ३६ ॥ कन्याशब्दान्न । कुमारी किशोरी कलभी ॥ प्रथमवयोग्रहणादृद्धा स्थविरा इत्यत्र न॥ वधूटी चिरण्टी इत्यत्र ईप् भवत्येव ॥ अग्रहणाच्छिशुः॥ ३९७ स्वाङ्गाद्वा ३७॥खाङ्गवाचिनो वा स्त्रियामीपूप्रत्ययो भवति ॥ सुमुखी-सुमुखा ॥ मृगाक्षी-मृगाक्षा ॥ तन्वङ्गीतन्वङ्गा ॥ सुष्ठु आसमन्तादङ्गं खाङ्गम् ॥ खस्य प्राणिनो अङ्गं खाङ्गमित्युक्तेऽङ्गाङ्गिभावेन ज्ञानादेरपि खाङ्गत्वं स्यात् । अतः खाङ्गलक्षणमाह ॥