SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणम् । [वृत्तिः १ धिक् ॥ ४१४ उपर्यध्यधसः सामीप्ये ७ ॥ एषां द्वे स्तो देशतः कालतश्च सामीप्ये ॥ ४१५ तस्य परमानेडितम् ८ ॥ द्विरुक्तस्य परं रूपमामेडितसंज्ञं स्यात् ॥ उपर्युपरि पुरोहितं याचकाः पतन्ति । अधोऽधो नगरं निधानानि सन्ति ॥ ४१६ परितःसमयानिकषाहाप्रतियोगेऽपि ९॥ परितः कृष्णं गोपाः ॥ निकषा समया सामीप्ये । समया ग्रामं उपवनानि वर्तन्ते ॥ निकषा ग्रामं निहतः शत्रुः ॥ हा कृष्णाभक्तम् । तस्य शोच्यत इत्यर्थः ॥ बुभुक्षितं न प्रतिभाति किंचित् ॥ ४१७ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः १० ॥ एष्वर्थेषु विषयभूतेषु प्रत्यादयः कर्मप्रवचनीयसंज्ञाः स्युः ॥ ४१८ कर्मप्रवचनीययुक्ते द्वितीया ११ ॥ एतेन योगे द्वितीया स्यात् ॥ लक्षणे । वृक्षं प्रति परि अनु वा विद्योतते विद्युत् ॥ इत्थंभूताख्याने । भक्तो विष्णुं प्रति परि अनु वा ॥भागे। लक्ष्मीहरि प्रति परि अनु वा । हरेर्भाग इत्यर्थः ॥ वीप्सायाम् । वृक्षं वृक्षं प्रति परि अनु वा संचरति ॥ ४१९ कालाध्वनोनॆरन्तर्ये १२ ॥ अविच्छिन्नसंयोगत्वं नैरन्तर्यम् । कालाध्ववाचकशब्दानां नैरन्तर्येऽर्थे वाच्ये सति द्वितीया विभक्तिर्भवति ॥ मासमधीते देवदत्तः ।। क्रोश पर्वतः ॥ नैरन्तये किम् । मासस्य द्विरधीते ॥ क्रोशस्यैकदेशे पर्वतः॥४२० कर्तरि प्रधाने क्रियाश्रये साधने च १३ ॥ प्रधाने कर्तरि क्रियासिद्धयुपकारके करणेऽर्थे च तृतीया विभक्तिर्भवति ॥ क्रियायाः परिनिष्पत्तिर्ययापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥ ७५ ॥ भिन्नः शरेण रामेण रावणो लोकरावणः । कराग्रेण विदीर्णोऽपि वानरैर्युध्यते पुनः ॥ ७६ ॥ ४२१ प्रकृत्यादिभ्यः १४ ॥ प्रकृत्यादिभ्यः शब्देभ्यस्तृतीया
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy