SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सू० ४२२-४२८] कारकप्रक्रिया १५ ८५ स्यात् ॥ प्रकृत्या चारुः ॥ प्रायेण अलसः ॥ सुखेन याति ॥ गोत्रेण गार्ग्यः । गार्योऽस्य गोत्रमित्यर्थः ॥ ४२२ दानपात्रे संप्रदानकारके चतुर्थी १५॥ सम्यक् श्रेयोबुद्ध्या प्रदीयते यस्मै तत्संप्रदानकारकम् ॥ वेदविदे गां ददाति ॥ अन्यत्र राज्ञो दण्डं ददाति ॥ रजकस्य वस्त्रं ददाति ॥ ददाति दण्डं पुरुषो महीपते ने चातिभक्त्या न च दानकाम्यया । यद्दीयते वासनया सुपात्रे तत्संप्रदानं कथितं कवीन्द्रैः ॥ ७७ ॥ अनभिहिते इत्येव । दानीयो विप्रः।। क्वचित्सम्यक्श्रेयोबुद्ध्यभावेऽपि चतुर्थी ॥ व्याजेन रघवे करमिति महाकविप्रयोगदर्शनात् ॥ तच्च संप्रदानं त्रिविधम् । प्रेरकमनिराकनुमन्तृ चेति ॥ त्यागेन कर्मणा व्याप्तं प्रेरकं चानुमन्त च । अनिराकर्तृ चेत्येतत्संप्रदानं त्रिधा स्मृतम् ॥ ७८॥ , देहीति प्रेरयति तत्प्रेरकम् ॥ यथा । बटवे भिक्षां ददाति ॥ यत्तु इदमहं ददामीत्युक्तेऽनुमन्यते ओमित्याह तदनुमन्तृ ॥ यथा। शिष्यो गुरवे गां ददाति ॥ यत्तु नानुमन्यते न निराकरोति तदनिराकर्तृ॥ यथा । सूर्यायाधैं ददाति ॥ ४२३ क्रियया यमभिप्रैति सोऽपि संप्रदानम् १६ ॥ पत्ये शेते ॥ ४२४ विश्लेषावधौ पञ्चमी १७॥ विश्लेषो विभागस्तत्र योऽवधिः सचलतया अचलतया वा विवक्षितस्तत्रापादाने पञ्चमी ॥ विश्लेषो नाम संयोगपूर्वको विभागः ॥ आधाराधेययोर्मध्ये आधारत्वेन यो ज्ञायमानः सोऽवधिः ॥ आधीयतेऽनेनासौ आधारः॥ आधातुं योग्यः आधेयः॥धावतोऽश्वादपतत् ।। भूभृतोऽवतरति गङ्गा ॥ ४२५ संबन्धे षष्ठी १८ ॥ As
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy