SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणम् । [ वृत्तिः १ भेद्यभेदकयोः श्लिष्टः संबन्धोन्योऽन्यमुच्यते । द्विष्ठो यद्यपि संबन्धः षष्ठ्युत्पत्तिस्तु भेदकात् ॥ ७९ ॥ भेद्यं विशेष्यमित्याहुर्भेदकं तु विशेषणम् । विशेष्यं तु प्रधानं स्यादप्रधानं विशेषणम् ॥ ८० ॥ प्रधानाप्रधानयोर्मध्येऽप्रधाने षष्ठी ॥ क्रियान्वयि प्रधानम् ॥ क्रियानन्वय्यप्रधानम् ॥ ८६ राज्ञः स पुरुषो ज्ञेयः पित्रोरेतत्प्रपूजनम् । गुरूणां वचनं पथ्यं कवीनां रसवद्वचः ॥ ८१ ॥ सेव्यसेवकभावसंबन्धः पूज्यपूजकभाव संबन्धो बोध्यबोधकभावसंबन्धो वाच्यवाचकभावसंबन्ध इति संबन्धश्चतुर्विधः ॥ ४२६ आधारे सप्तमी १९ ॥ आधारो नामाधिकरणम् ॥ षड्विधमधिकरणम् । औपश्लेषिकं सामीप्यकमभिव्यापकं वैषयिकं नैमित्तिकमौपचारिकं चेति ॥ औपश्लेषिकं त्रिविधम् । एकदेशवृत्त्यभिव्याप्यवृत्ति व्यङ्ग्यवृत्तीति केषांचिन्मतम् ॥ कटे शेते कुमारोऽसौ वटे गावः सुशेरते । तिलेषु विद्यते तैलं हृदि ब्रह्मामृतं परम् ॥ ८२ ॥ युद्धे संनह्यते धीरोऽङ्गुल्यग्रे करिणां शतम् । भूभृत्सु पादपाः सन्ति गङ्गायां वरवालुकाः ॥ ८३ ॥ ४२७ भावे सप्तमी २० ॥ क्रियालक्षणं भावस्तत्रापि सप्तमी ॥ प्रसिद्धक्रियया अप्रसिद्धक्रियाया लक्षणबोधनं भावः ॥ देवे वर्षति चौर आयातः || पतत्यंशुमालिनि पतितोऽरातिः ॥ ४२८ निवासहनमऋते निर्धारणस्वाम्यादिभिश्व २१ ॥ एतैरपि योगे द्वितीयाद्या विभक्तयो भवन्ति ॥ विना पापं सर्वे फलति || अन्तरेणाक्षिणी जीवितेन किम् || अन्तरा त्वां मधुमध्वित्यादिपदानाम् ॥
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy