SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सू० ४२९– ४४९] कारकप्रक्रिया १५ ८७ ४२९ अधिशीङस्थासां कर्म २२ ॥ अधिपूर्वाणामेषामाधारः कर्मसंज्ञः स्यात् ॥ अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥ ४३० अभिनिविशश्च २३ ॥ अभिनीत्येतत्संघातपूर्वस्य विशतेर्धातोराधारः कर्मसंज्ञः स्यात् । ग्रामं अभिनिविशते ॥ ४३१ उपान्वध्यासः २४ ॥ उपादिपूर्वस्य वसतेराधारः कर्मसंज्ञः स्यात् ॥ आवसथ्यं आवसति उपवसति अनुवसीत अधिवसति || ४३२ सहादियोगे तृतीयाsप्रधाने २५ ॥ सह सदृशं साकं साधै सममिति सहादयः ॥ सह शिष्येणागतो गुरुः॥ सदृशश्चैत्रो मैत्रेण ॥ साकं नयनाभ्यां श्लक्ष्णा दन्ताः ॥ सार्धं धनिना धृतः साधुः ॥ समं शिष्याभ्यामधीते ॥ समं शिष्येण गुरुणा भुज्यते ॥ ४३३ अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया २६ ॥ दास्या संयच्छते कामुकः । धर्म्ये तु भार्यायै संयच्छति ॥ ४३४ वारणार्थयोगे तृतीया २७ ॥ अलं विवादेन ॥ ४३५ नमः स्वस्तिस्वाहास्वधालंवषड्रयोगे चतुर्थी २८ ॥ नमो नरायणाय । स्वस्ति राज्ञे । सोमाय स्वाहा । पितृभ्यः खधा । अलं मल्लो मल्लाय । वषट् इन्द्राय || ४३६ रुच्यर्थानां प्रीयमाणः २९ ॥ रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः संप्रदानसंज्ञः स्यात् ॥ हरये रोचते भक्तिः ॥ ४३७ ऋत आदियोगे पञ्चमी ३० ॥ ऋते अन्यः आरात् इतरः अञ्चत्तरपदं दिग्वाचकः शब्दः आहि आच् एते ऋतआदयः ॥ अन्यशब्देनान्यार्थी गृह्यन्ते ॥ ऋते ज्ञानान्न मुक्तिः ॥ अन्यो गृहाद्विहारः ॥ आराद्वनात् ॥ इतरो ग्रामात् ॥ ४३८ ऋतेयोगे द्वितीयापि ३१ ॥ ज्ञानं ऋते ॥ चकाराद्विनादियोगे तृतीयापञ्चम्यौ स्तः ॥ विना ज्ञानात् । ज्ञानेन विना ॥ ४३९ यतश्च निर्धारणम् ३२ ॥ द्रव्यगुणक्रियाजातिभिः समुदायात्पृथक्करणं यतस्तत्र षष्ठीसप्तम्यौ स्तः ॥ भवतां मध्ये यो दण्डी स
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy