________________
सारस्वतव्याकरणम् ।
[ वृत्ति: १
आयातु । भवत्सु वा ॥ क्रियापराणां भगवदाराधकः श्रेष्ठः । क्रियापरेषु वा ॥ गवां गोषु वा कृष्णा गौः संपन्नक्षीरा ॥ एतेषां एतेषु वा क्षत्रियः शूरतमः || ४४० स्वाम्यादिभिश्च ३३ ॥ स्वाम्यादिभिरपि योगे षष्ठीसप्तम्यौ स्तः ॥ गोषु खामी गवां खामी ॥ गवामधिपतिः गोष्वधिपतिः ॥ ४४१ कर्तृकार्ययोरक्तादौ कृति षष्ठी ३४ ॥ कर्तरि कार्ये च षष्ठीविभक्तिर्भवति क्तादिवर्जितकृदन्ते शब्दे प्रयुज्यमाने ॥ व्यासस्य कृतिः । व्यासकर्तृका कृतिरित्यत्यर्थः ॥ भारतस्य श्रवणम् ॥ ४४२ उभयप्राप्तौ कर्मणि ३५ ॥ उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् ॥ चित्रं गवां दोहोऽगोपेन ॥ ४४३ स्मृतौ च कार्ये ३६ ॥ स्मृत्यर्थे धातौ प्रयुज्यमाने च कार्ये षष्ठी भवति ॥ मातुः स्मरति मातरं स्मरतीत्यस्मिन्नर्थे ॥ चकाराद्वितीयापि । मातरं स्मरति ॥ ४४४ न लोकाव्ययनिष्ठाखलर्थतृनाम् ३७ ॥ एषां प्रयोगे षष्ठी न ॥ लादेशाः । कुर्वन् कुर्वाणः सृष्टिं हरिः ॥ उ । हरिं दिदृक्षुः अलंकरिष्णुर्वा ॥ उक् । दैत्यान्घातुको हरिः ॥ अव्ययम् । जगत्सृष्ट्वा सुखं कर्तुम् ॥ निष्ठा । विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः ॥ खलर्थः । ईषत्करः प्रपञ्चो हरिणा ॥ तृन् । कर्ता लोकान् ॥ ४४५ हेतौ तृतीया पञ्चमी च वक्तव्या ३८ ॥ अनित्यः शब्दः कृतकत्वेन कृतकत्वात्कृत्रिमत्वात् ॥ ४४६ भयहेतौ पञ्चमी च वक्तव्या ३९ ॥ चौराद्विभेति ॥ व्याघ्रात्रस्यति ॥ विद्युत्पाताच्चकितः ॥ ४४७ षष्ठी च हेतुप्रयोगे ४० ॥ हेतुप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् ॥ चकारात्सर्वादियोगे तृतीयापि ॥ अन्नस्य हेतोर्वसति ॥ कस्य हेतोर्नागतः । केन हेतुना वा नागतः ॥ ४४८ इत्थंभावे तृतीया ४१ ॥ कंचित्प्रकारं प्राप्त इत्थंभावः ॥ शिष्यं पुत्रेण पश्यति ॥ संसारमसारेण पश्यति ॥ ४४९ येनाङ्गवि
1
૮૮