________________
सू० ४५०-४६१] कारकप्रक्रिया १५
कारः ४२ ॥ येन विकृतेनाङ्गेनाङ्गिनोऽङ्गविकारो लक्ष्यते तस्मादङ्गात्तृतीया विभक्तिर्भवति ॥ अक्ष्णा काणः ॥ पादेन खञ्जः। श्रवणेन बधिरः ॥ विकारो द्विविधः । न्यूनत्वाश्रित आधिक्याश्रितश्च ॥ मुखेन त्रिलोचनः ॥ वपुषा चतुर्भुजः ॥ ४५० जनिकर्तुः प्रकृतिः ४३ ॥ जायमानस्य कार्यस्योपादानमपादानसंज्ञं भवति । तत्रापादाने पञ्चमी । यस्मात्प्रजाः प्रजायन्ते तद्ब्रह्मेति ॥ ४५१ आडादियोगे च ४४ ॥ आङादियोगे पञ्चमीविभक्तिर्भवति ॥ आङ्मर्यादायामभिविधौ च ।। अपपरी वर्जने ॥ एते आङादयः ॥ आपाटलिपुत्रादृष्टो देवः ॥ आ बालेभ्यो हरिभक्तिः ॥ आदिशब्दात्परि त्रिगर्तेभ्यो वृष्टो देवः ॥ अप त्रिगर्तेभ्यो वृष्टो देवः ॥ ४५२ तादयें चतुर्थी वक्तव्या ४५ ॥
संयमाय श्रुतं धत्ते नरो धर्माय संयमम् ।
धर्म मोक्षाय मेधावी धनं दानाय मुक्तये ॥ ८४ ॥ आशिषि चतुर्थी । राज्ञे चिरं सौभाग्यं भूयात् ॥ ४५३ क्रुधदुहेासूयार्थानां यं प्रति कोपः ४६ ॥ क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स संप्रदानसंज्ञकः स्यात् ॥ हरये क्रुध्यति द्रुह्यति ईर्ण्यति असूयति ॥ Qहादयोऽपि कोपप्रभवा एव गृह्यन्ते ॥ ४५४ सोपसगयोः क्रुधQहोर्योगे द्वितीया वक्तव्या ४७ ॥ क्रूरमभिक्रुध्यति । मित्रमभिद्रुह्यति ॥ अपवादमारोपयति ॥ ४५५ क्यब्लोपे कर्मण्यधिकरणे च पश्चमी वक्तव्या ४८ ॥ हात्प्रेक्षते । हर्यमारुह्य प्रेक्षत इत्यर्थः ॥ आसनात्प्रेक्षते । आसने उपविश्य प्रेक्षत इत्यर्थः॥ निमित्ताकर्मयोगे सप्तमी च वक्तव्या ॥
क्यबर्थो दृश्यते यत्र क्यबन्तं नैव दृश्यते । तदेव हि क्यब्लोपित्वं ज्ञातव्यं च सदा बुधैः ॥८५॥