SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणम् । [ वृत्ति: १ चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीनि पुष्कलको हतः ॥ ८६ ॥ गुदमेान्तराला सीमेति प्रोच्यते बुधैः । पुष्कलो मृगभेदः स्याद्वन्यः सौगन्ध्यहेतुकः ॥ ८७ ॥ ४५६ विषये च ४९ ॥ तर्फे चतुरः ॥ विषयो नामान्यत्र भावः ॥ ४५७ षष्ठीसप्तम्यौ चानादरे ५० ॥ बहूनां क्रोशतां गतश्चौरः ॥ मातापित्रो रुदतोः प्रव्रजति पुत्रः ॥ बहुष्वसाधुषु वदत्खपि स्वयमार्यो याति साधुमार्गेण ॥ बहुषु साधुषु वदत्स्वपि स्वयमनार्यो यात्यसाधुमार्गेण ॥ ४५८ अन्योक्ते प्रथमा ५१ ॥ यदिदं कार्याद्यन्येनाख्यातेन कृता चोक्तं भवति तदा प्रथमा प्रयोक्तव्या ॥ घटः क्रियते । घटः कार्यः ॥ प्राप्तं उदकं यमिति प्राप्तोदको ग्रामः ॥ छन्दसि स्यादिः सर्वत्र ॥ दधि जुहोतीत्यस्मिन्नर्थे दघ्ना जुहोति ॥ पुनातु ब्रह्मणस्पतिः ॥ व्रजतीर्विरेजुः ॥ ९० कर्ता कर्म च करणं संप्रदानं तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ॥ ८८ ॥ द्वितीया कर्मणि ज्ञेया कर्तरि प्रथमा यदा । उक्तकर्तृप्रयोगोऽयं न तदा यक्प्रयुज्यते ॥ ८९ ॥ तृतीया कर्तरि यदा कर्मणि प्रथमा तदा । उक्तकर्मप्रयोगोऽयं न तदा परस्मैपदम् ॥ ९० ॥ ४५९ स्वतन्त्रः कर्ता ५२ ॥ क्रियायां खातच्येण विवक्षितोऽर्थः कर्ता स्यात् ॥ प्रधानीभूतधात्वर्थाश्रयः कर्ता ॥ ४६० साधकतमं करणम् ५३ ॥ क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् ॥ ४६१ कर्तृकरणयोस्तृतीया ५४ ॥ अनभिहिते कर्तरि करणे च १ कर्तेत्यादिश्लोकत्रयं व्याकरणीय सामान्यनियमः ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy