SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सू० ४६२-४६६] कारकप्रक्रिया १५ तृतीया स्यात् ॥ ४६२ अकथितं च ५५ ॥ अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ॥ दुयाचपच्दण्ड्रधिप्रच्छिचिब्रूशासुजिमयमुषाम् । कर्मयुक्स्यादकथितं तथा स्यान्नीकृष्वहाम् ॥ ९१ ॥ दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णा कर्मणा यधुज्यते तदेवाकथित कर्मेति परिगणनं कर्तव्यमित्यर्थः ॥ गां दोग्धि पयः ॥ बलिं याचते वसुधाम् ॥ अविनीतं विनयं याचते ॥ तण्डुलानोदनं पचति ॥ गर्गान् शतं दण्डयति ॥ ब्रजमवरुणद्धि गाम् ॥ माणवकं पन्थानं पृच्छति ॥ वृक्षमवचिनोति फलानि॥ माणवकं धर्म ब्रूते शास्ति वा ॥ शतं जयति देवदत्तम् ॥ सुधां क्षीरनिधिं मनाति ॥ देवदत्तं शतं मुष्णाति ॥ ग्राममजां नयति हरति कर्षति वहति वा ॥ अर्थनिबन्धनेयं संज्ञा ॥ बलि भिक्षते वसुधाम् ॥ माणवकं धर्म भाषते अभिधत्ते वक्तीत्यादि ॥ ४६३ अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञः स्यादिति वाच्यम् ५६॥ कुरून्वपिति ॥ मासमास्ते ॥ गोदोहमास्ते ॥ क्रोशमास्ते ॥ ४६४ गतिबुद्विप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता सणौ ५७॥ गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ।। शत्रूनगमयत्स्वर्ग वेदार्थ खानबोधयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ ९२ ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः । गौणे कर्मणि दुह्यादेः प्रधाने नीहकृष्वहाम् ॥ ९३ ॥ बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया। प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः॥९४॥ गौह्यते पयः ॥ अजा ग्रामं नीयते ॥ बोध्यते माणवकं धर्मः,
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy