________________
सारस्वतव्याकरणम् ।
[वृत्तिः
१
माणवको धर्ममिति वा॥ देवदत्तो ग्रामे गम्यते ॥ अकर्मकाणां कालादिकर्मणां च कर्मणि भावे च नकार इष्यते ॥ मासो मासं वा आस्यते देवदत्तेन ॥ णिजन्तात्तु प्रयोज्ये प्रत्ययः ॥ मासमास्यते माणवकः ॥ ४६५ तत्प्रयोजको हेतुश्च ५८॥ कर्तुः प्रयोजकः कर्तृसंज्ञो हेतुसंज्ञश्च स्यात् ॥ स्वार्थ परित्यज्य अन्यार्थाभिधायित्वमुपसर्जनत्वम् ॥ क्रियाजन्यफलशालित्वं कर्मत्वम् ॥ साक्षात्संबन्धेन क्रियान्वयित्वं मुख्यत्वम् ॥ परंपरासंबन्धेन क्रियान्वयित्वं गौणत्वम् ।। इति कारकप्रक्रिया संपूर्णा ॥ १५ ॥
समासप्रकरणम् १६ अथार्थवद्विभक्तिविशिष्टानां पदानां समासो निरूप्यते ॥ ४६६ समासश्चान्वये नानाम् १ ॥ नाम्नामन्वययोग्यत्वे सत्येव समासो भवति ॥ चकारातद्धितोऽपि । ततो भार्या पुरुषस्येत्यादौ समासो न भवति ॥ स च षड्डिधः । अव्ययीभावस्तत्पुरुषो द्वन्द्वो बहुव्रीहिः कर्मधारयो द्विगुश्चेति ॥ अव्ययस्य अव्ययेन वा भवनं सोऽव्ययीभावः ।१। स एवाग्रिमः पुरुषः प्रधानं यस्यासौ तत्पुरुषः । २ । द्वन्द्वायते उभयपदार्थो येनासौ द्वन्द्वः । ३ । बहु समातिरिक्तं व्रीहिः प्रधानं यस्मिन्नसौ बहुव्रीहिः । ४ । कर्म भेदकं धारयतीति कर्मधा. रयः । ५ । द्वाभ्यां गच्छतीति द्विगुः । ६ । पूर्वपदप्रधानोऽव्ययीभावः ॥ द्विगुतत्पुरुषौ परपदप्रधानौ ॥ द्वन्द्वकर्मधारयौ चोभयपदप्रधानौ ॥ बहुव्रीहिरन्यपदप्रधानः ॥ यत्रानेकसमासप्राप्तिस्तत्र उभयपदप्रधानो बलवान् । तस्य क्रियाभिसंबन्धात् ॥ इदमेकस्सिन्समसिते पदेऽनेकसमासप्राप्तिस्तद्विषयम् ॥ निषादस्थपतिं याजयेदित्यत्र तत्पु१ व्यस्तपदयोय॑स्तपदानां वैकत्र समसनं समासः । तद्भेदा अग्रे व्याख्याताः ।