________________
सू० ४६७-४८२] समासप्रकरणम् १६ रुषबहुव्रीहिकर्मधारयप्राप्तौ सत्यां निर्णयमाह ॥ 'समानाधिकरणव्यधिकरणयोर्मध्ये समानाधिकरणो बलवान्' ॥ 'एकविभक्त्यन्तत्वमेवार्थनिष्ठत्वं सामानाधिकरण्यम्' ॥ नीलं च तदुत्पलं च नीलोत्पलम् ॥ भिन्नविभक्त्यन्तत्वं भिन्नार्थनिष्ठत्वं वैयधिकरण्यम् ॥ ऐकपद्यमैकवर्यमेकविभक्तिकत्वं च समासप्रयोजनम् ॥ अधि स्त्री इति स्थिते । स्त्रीशब्दाद्वितीयैकवचनम् । स्त्रियमधिकृत्य भवतीति विग्रहेऽन्वययोग्यार्थसमर्पकः पदसमुदायो विग्रहो वाक्यमिति यावत् ॥ ४६७ कृते समासे अव्ययानां पूर्वनिपातो वक्तव्यः २ ॥ ४६८ पूर्वेव्ययेऽव्ययीभावः ३ ॥ अव्यये पूर्वपदे सति योऽन्वयः सोऽव्ययीभावसंज्ञकः समासो भवति ॥ इति समाससंज्ञायाम् ॥ ४६९ समासप्रत्यययोः ४ ॥ समासे वर्तमानाया विभक्तेः प्रत्यये परे च विभतेलुंग्भवति ॥ नामसंज्ञायां स्यादिविभक्तिर्भवति ॥ ४७० स नपुंसकम् ५॥ सोऽव्ययीभावः समासो नपुंसकलिङ्गो भवति । नपुंसकत्वाद्रखत्वम् ॥ ४७१ अव्ययी भावात् ६ ॥ अव्ययीभावात्परस्या विभक्तेलुग्भवति ॥ अधिस्त्रि गृहकार्यम् ॥ रायमतिक्रान्तमतिरि कुलम् । नावमतिकान्तमतिनु जलम् ॥ ४७२ अत्यादयः क्रान्ताद्यर्थे द्वितीयया ७ ॥ क्रान्ताद्यर्थे वर्तमाना अत्यादयो द्वितीयया सह समस्यन्ते स तत्पुरुषसंज्ञकः समासो भवति ॥ ४७३ ह्रस्वादेशे संध्यक्षराणामिकारोकारौ च वक्तव्यौ ८॥ ४७४ यथाऽसादृश्ये ९॥ यथाशब्दोऽसादृश्ये वर्तमानः समस्यते सोऽव्ययीभावः समासो भवति ॥ योग्यता वीप्सा पदार्थानवृत्तिः सादृश्यं चेति यथार्थाः । शक्तिमनतिक्रम्य करोतीति यथाशक्ति करोति ॥ असादृश्ये किम् । यथा हरिस्तथा हरः ॥ कुम्भस्य समीप
१ समासार्थावबोधकं वाक्यं विग्रहः। २ व्याप्तिः । ३ पदार्थानतिक्रमः ।