________________
सारस्वतव्याकरणम् । [वृत्तिः १ मिति विग्रहे समासादिपूर्ववत् । अव्ययीभावात् (सू० ४७१) इति प्राप्ते ॥ ४७५ अतोऽमनतः १० ॥ अकारान्तादव्ययीभावात्परस्य विभक्तरम् भवति अतं वर्जयित्वा ॥ तथा च पाणिनीये ॥ ' नाव्ययीभावादतोऽम् त्वपञ्चम्याः । अदन्तादव्ययीभावान्न सुपो लुक् तस्य पञ्चमी विनामादेशः स्यात् ॥ उपकुम्भं वर्तते ॥ ४७६ वा टाउयोः ११ ॥ टा ङि इत्येतयोर्वा अम् भवति ॥ अतोऽमनतः (सू० ४७५) वा टाङ्योः । अत्र अत् टा डि एतत्पञ्चम्यास्तृतीयासप्तम्योर्दिवचनबहुवचनयोरप्युपलक्षणम् । तेन द्विवचनबहुवचनयोरपि वा अम् भवति न लुक् । पञ्चम्यास्तु अम्लुकोनिषेधः । उपकुम्भेन कृतं उपकुम्भकृतम् । उपकुम्भं देहि । अनत इति विशेषणादुपकुम्भादानय । उपकुम्भं देशः । उपकुम्भं निधेहि । उपकुम्भे निधेहि ॥ ४७७ अवधारणार्थे यावति च १२ ॥ अवधारणार्थे यावच्छब्दे प्रयुज्यमाने अव्ययपूर्वपदाभावेऽपि योऽन्वयः सोऽव्ययी. भावसंज्ञकः समासो भवति॥४७८ यावदवधारणे १३॥ अवधारणार्थे यावच्छब्दो नित्यं समस्यते ॥ यावन्त्यमत्राणि तावतो ब्राह्मणानामन्त्रयखेति यावदमत्रम् ॥ ४७९ आङ्मर्यादाभिविध्योः १४ ॥ मर्यादायामभिविधौ च आङ् वा समस्यते ॥ पाटलिपुत्रं मर्यादीकृत्येत्यापाटलिपुत्रम् ॥ बालानभिव्याप्येत्याबालम् ॥ तेन विनेति मर्यादा ॥ तेन सहेत्यभिविधिः ॥ ४८० पारेमध्ये षष्ठया वा १५॥ पारमध्यशब्दौ षष्ठया वा समस्येते ॥ एदन्तौ निपातौ सूत्रात् ॥ ४८१ प्रथमानिर्दिष्टं समास उपसर्जनम् १६ ॥ समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंशं स्यात् ॥ ४८२ उपसर्जनं पूर्वम् १७ ॥ समासे उपसर्जनम् प्राक् प्रयोज्यम् ॥ गङ्गायाः पारे इति पारेगङ्ग-गङ्गापारे ॥ गङ्गाया मध्ये इति मध्येगङ्गम्