SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सू० ४८३- ४९६] समासप्रकरणम् १६ ९५ गङ्गामध्ये ॥ मक्षिकाणामभावो निर्मक्षिकं वर्तते ॥ ४८३ अमादौ तत्पुरुषः १८ ॥ द्वितीयाद्यन्ते पूर्वपदे सति योऽन्वयः स तत्पुरुषसंज्ञकः समासो भवति ।। ४८४ द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापनैः १९ ॥ अन्वये सति समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः ॥ ग्रामं प्राप्तो ग्रामप्राप्तः ॥ अन्वये इति किम् । पश्य कृष्णं श्रितस्त्वं साधून् ॥ दात्रेण छिन्नं दावच्छिन्नम् || यूपाय दारू यूपदारु || वृकेभ्यो भयं वृकभयम् ॥ राज्ञः पुरुषो राजपुरुषः ॥ अक्षेषु शौण्डः अक्षशौण्डः || ४८५ क्वचिदमाद्यन्तस्य परत्वम् २० ॥ अग्नौ आहित इत्याहिताग्निः ॥ पूर्वं भूत इति भूतपूर्वः ॥ ४८६ पिशाचादेः सभादीनां नपुंसकत्वं वा २१ ॥ पिशाचानां सभा इति पिशाचसभम् पिशाचसभा || गृहस्थूणं-गृहस्थूणा ॥ शशोर्णम्-शशोर्णा ॥ भिन्नपदे णत्वाभावस्तथापि समासे सति क्वचिदैकपद्यं णत्वहेतुः । शराणां वनं शरवणम् ॥ आम्राणां वनमाम्रवणम् ॥ ४८७ संज्ञायां वा २२ ॥ त्रीणि नयनानि यस्यासौ त्रिनयनः - त्रिणयनः ॥ ४८८ पानस्य वा २३ ॥ सुरायाः पानं सुरापानम् - सुरापणम् ॥ ४८९ नञि २४ ॥ नञि पूर्वपदे सति योऽन्वयः स तत्पुरुषसंज्ञकः समासो भवति ॥ ४९० नञ् २५ ॥ नञ् सुबन्तेन समस्यते ॥ नञ उभयार्थत्वं प्रसिद्धम् । तथा चोक्तं वार्तिककारेण ॥ उभौ नौ समाख्यातौ पर्युदासप्रसज्यकौ । पर्युदासः सहग्राही प्रसज्यस्तु निषेधकृत् ।। ९५ ।। प्राधान्यं तु विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ।। ९६ ॥ १ प्रसज्यप्रतिषेधः ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy