SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणम् । [वृत्तिः १ अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र न ॥ ९७ ॥ न ब्राह्मणोऽब्राह्मणः ॥ ४९१ ना २६ ॥ समासे सति नमोऽकारादेशो भवति । नाकादिवर्जम् ॥ ( नाक नक नग तनूनपात् नख नपुंसक नक्षत्र नकुल नासत्य नमुचि नर इत्यादि । नाक नमुचि नकुल नागर नामिका नमेरु ननानि नभसि नान्तरीय नक नख नग नद नयाद नवेद नासत्य नापित नहुष नक्षत्र ) इत्येते नाकादयः केनचिद्गणिताः । उभयथापि नाकादौ न भवति ॥४९२ अन् खरे २७ ॥ समासे सति नञोऽनादेशो भवति खरे परे ॥ ४९३ अनादेशोऽपदान्तवद्वाच्यः २८ ॥ तेन झनः (सू० ८७) इति न द्वित्वम् । अश्वादन्योऽनश्वः ॥ धर्मविरुद्धोऽधर्मः ॥ ग्रहणाभावोऽग्रहणम् ॥ तदन्यतद्विरुद्धतदभावेषु नञ् वर्तते ॥ तस्मादन्यस्तदन्यः । तेन विरुद्धस्तद्विरुद्धः । तस्य अभावस्तदभावः । तदन्यश्च तद्विरुद्धश्च तदभावश्च तदन्यतद्विरुद्धतदभावास्तेषु ॥ ४९४ चार्थे द्वन्द्वः २९ ॥ समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थास्तेषु चार्थेषु द्वन्द्वसमासो भवति ॥ तत्रेश्वरं गुरुं च भजखेति प्रत्येकमेकक्रियासंबन्धे समुच्चये समासो नास्ति । बटो भिक्षामट गां चानयेति क्रमेण क्रियाद्वयसंबन्धेऽन्वाचये समासो नास्ति । नाम्नां परस्परमसंबन्धात् ॥ इतरेतरयोगे समाहारे चार्थे द्वन्द्वसमासो भवति ॥ ४९५ द्वन्द्वेऽल्पस्वरप्रधानेऽकारोकारान्तानां पूर्वनिपातो वक्तव्यः ३०॥ पटुश्व गुप्तश्च पटुगुप्तौ ॥ इतरेतरयोगे द्विवचनम् । चकारस्योक्तार्थानामित्यप्रयोगः । अग्निश्च मारुतश्च अमिमारुतौ ॥ भोक्ता च भोग्यश्च भोक्तभोग्यौ ॥ धवश्व खदिरश्च धवखदिरौ ॥ ४९६ देवताद्वन्द्वे १ नाकादिगण एवाग्रे धनुश्चिह्ने निहितः।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy