________________
सू० ४९७-५१५] समासप्रकरणम् १६
९७
पूर्वपदस्य वा दीर्घो वक्तव्यः ३१ ॥ वाग्रहणात्कचिन्न भवत्यमिमारुतावित्यादौ ॥ इन्द्रश्च बृहस्पतिश्च इन्द्राबृहस्पती ॥ ४९७ अश्यादेः सोमादीनां पत्वं वक्तव्यम् ३२ ॥ अभिश्च सोमश्च अग्नीषोमौ ॥ ४९८ एकवद्भावो वा समाहारे वक्तव्यः ३३ ॥ समाहारस्यैकत्वात्समाहारे एकवद्भावः सिद्ध एव । तर्हि वाग्रहणं किमर्थम् ॥ वाग्रहणात्कचिद्वयोरपीतरेतरयोगे एकवचनं कचिद्वह्ननामितरेतरयोगे एकवचनम् । शशाश्च कुशाश्च पलाशाश्च शशकुशपलाशाः शशकुशपलाशम् ॥ ४९९ अन्यादीनां विभक्तिलोपे कर्मव्यतिहारे पूर्वपदस्य सगागमो भवति ३४ ॥ अन्योन्यमेककियाकरणं कर्मव्यतिहारः । अन्यश्च अन्यश्च अन्योन्यं विप्रा नमन्ति । परश्च परश्च परस्परमित्यत्र कस्कादित्वाद्विसर्गोपध्मानीयाभावः ॥ ५०० एकत्वे द्विगुद्वन्द्वौ ३५ ॥ एकत्वे वर्तमानौ द्विगु द्वन्द्वौ नपुंसकलिङ्गौ भवतः ॥ ५०१ संख्यापूर्वी द्विगुः ३६ ॥ संख्यापूर्वः समासो द्विगुनिंगद्यते ॥ ५०२ सामहारे त ईप् द्विगुः ३७ ॥ समाहारेर्थे द्विगुः समासो भवति ततोऽकारान्तादीप् प्रत्ययो भवति ॥ ५०३ पात्राद्यन्तो द्विगुर्नवन्तः ३८ ॥ पञ्चानां पात्राणां समाहारः पञ्चपात्रम् । द्विभुवनम् । त्रिभुवनम् । चतुष्पथम् । दशानां ग्रामाणां समाहारो दशग्रामी । पञ्चाग्नयः समाहृता इति पञ्चामि । पञ्चानां गवां समाहारः पञ्चगु । नपुंसकत्वाद्धखत्वम् । त्रिफला रूढितः || ५०४ बहुव्रीहिरन्यार्थे ३९ ॥ अन्यपदार्थप्रधानो यः समासः स बहुव्रीहिसंज्ञको भवति ॥ बहु धनं यस्य स बहुधनः । अस्ति धनं यस्य सोऽस्तिधनः || अव्ययत्वादस्त्यादीनां पूर्वनिपातः । अन्यपदप्राधान्याद्बहुव्रीहिः || अन्तरङ्गं यस्यासावन्तरङ्गः । बहिरङ्गः । उच्चैर्मुखः ॥ ५०५ तेन सहेति तुल्ययोगे ४० ॥ सहेत्येतत्तृती -
७