SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९८ सारस्वतव्याकरणम् । . [वृत्तिः१ यान्तेन समस्यते स तुल्ययोगबहुव्रीहिः॥५०६ सहादेः सादिः ४१॥ सहादीनां सादिर्भवति ॥ पुत्रेण सह वर्तमानः सपुत्रः ॥ सो वेति केचित् ॥ सहपुत्रो वागतः । तुल्ययोगवचनं प्रौयिकम् । कर्मणा सह वर्तते स सकर्मकः । सलोमकः ॥ यस्य प्रधानस्यैकदेशो विशेषणतया यत्र ज्ञायते स तद्गुणसंविज्ञानो बहुव्रीहिः । लम्बौ कौँ यस्य स लम्बकर्णः ॥ ५०७ बहुव्रीहौ विशेषणसप्तम्यन्तयोः पूर्वनिपातो वक्तव्यः ४२ ॥ धनं करे यस्य स करधनः । मतिः कृष्णे यस्य स कृष्णमतिः । बुद्धिर्धर्मे यस्य स धर्मबुद्धिः । कण्ठे हारो यस्य स कण्ठहारः । करे कङ्कणं यस्यासौ करकङ्कणः । भुवने कीर्तिस्यासौ भुवनकीर्तिः॥५०८ प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ वक्तव्यौ ४३॥ ५०९ क्तक्तवतू निष्ठा ४४ ॥ तक्तवतू प्रत्ययौ निष्ठासंज्ञौ स्तः ।। चक्रं पाणौ यस्य स चक्रपाणिः हरिः । दण्डः पाणौ यस्य स दण्डपाणिः पुरुषः । उद्यतोऽसिर्येनासावस्युद्यतः। उद्यतासिरित्यपि भवति । ५१० प्रियादीनां वा ४५ ॥ प्रियगुडः-गुडप्रियः॥५११ इन्द्वादिभ्यश्च ४६ ॥ इन्द्रादिभ्यः शब्देभ्यः सप्तम्यन्तस्य पूर्वनिपातो न । इन्दुः शेखरे यस्यासाविन्दुशेखरः । पद्मं नाभौ यस्य स पद्मनाभः । कपिध्वजः ॥ ५१२ प्रजामेधयोरसुक ४७ ॥ नन्दुःसुभ्यः प्रजामेधयोर्नित्यमसुक् स्याबहुव्रीहौ ॥ अप्रजाः । सुप्रजाः। दुष्प्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥ ५१३ धर्मादनिच केवलात् ४८॥ केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरानिच्प्रत्ययः स्यात् ।। कल्याणधर्मा। सुधर्मा ॥ केवलात्किम् । परमः खो धर्मो यस्य सः परमखधर्मः॥५१४ जायाया निडादेशो बहुव्रीहौ वक्तव्यो यलोपश्च ४९॥ भूजानिः । लक्ष्मीजानिः ॥ ५१५ उत्पूतिसुसुरभिभ्यो गन्धशब्द१प्रायिकं सामान्यम् ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy