SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सू०५१६-५३५] समासप्रकरणम् १६ स्येकारान्तादेशो बहुव्रीहौ वक्तव्यः ५० ॥ उद्गन्धिः। पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ॥ ५१६ आगन्तुकस्यैकवचनान्तस वा ५१ ॥ सुगन्धिः आपणः सुगन्धो वा ॥ ५१७ अल्पाख्यायां च ५२ ॥ अल्पपर्यायो गन्धशब्दः ॥ सूपोऽल्पो यस्मिन् तत्सूपगन्धि भोजनम् । घृतगन्धि ॥ वेति केचित् । सूपगन्धम् ॥ धृतगन्धम् ॥ ५१८ उपमानाच ५३ ॥ पद्मस्येव गन्धो यस्येति पद्मगन्धिः । मतान्तरे विकल्पः ॥ ५१९ ऊधसोऽनङ् ५४ ॥ ऊधोन्ताबहुव्रीहेरनादेशः स्यास्त्रियाम् ॥ कुण्डोनी गौः ॥ पुंसि तु कुण्डोधाः गोगणः ॥ ५२० धनुषश्च ५५ ॥ शाङ्ग धनुर्यस्य स शार्ङ्गधन्वा ॥ ५२१ संज्ञायां वा ५६॥ शतधन्वा-शतधनुः॥५२२ पुंवद्वा ५७॥ समासे सति समानाधिकरणे पूर्वस्य स्त्रीलिङ्गस्य पुंवद्वा भवति ॥ वाग्रहणात्कल्याणीप्रिय इत्यादौ न भवति ॥ पुंवद्भावादीबापोनिवृत्तिः । रूपवती भायों यस्य स रूपवद्भार्यः ॥ ५२३ अन्यार्थे ५८ ॥ स्त्रीलिङ्गस्यान्यार्थे वर्तमानस्य हखो भवति ॥ ५२४ यमानिनत्वशसंततरादौ चारूप्ये ५९ ॥ एनीव आचरतीति एनायते। पल्यादित्वात्तो न । पण्डितमानिनी । पट्या भावः पटुत्वम् । अल्पं देहीति अल्पशः । पटुतरा । पटुतमा । पटुकल्पा । पटुदेश्या। पटुदेशीया । अरूप्ये इति किम् । शुभ्रारूप्या । प्रियादौ न । ( प्रिया भक्तिः मनोज्ञा सुभगा दुर्भगा क्षान्ता कल्याणी चपला वामना सचिवा समा वामा कान्ता बाला तनया दुहिता खसा ) । इति प्रियादयः ॥ ५२५ एषु परेषु भाषितपुंस्कस्य स्त्रीप्रत्ययान्तस्य न पुंवत् ६० ॥ ५२६ ऊप्रत्ययान्तस्य च न पुंवत् ६१ ॥ वामोरूभार्यः ।। ५२७ अभाषितपुंस्कस्य च न पुंवत् ६२ ॥ गङ्गाभायः॥ ५२८ १इकारान्तादेशोऽत्राप्यनुवर्तते। २ प्रियादिगणो धनुराकारचिह्ने निवेशितः।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy