________________
सारस्वतव्याकरणम् ।
[ वृत्ति: १
कोपधपूरणीसंज्ञानां च न पुंवत् ६३ ॥ पाचकीभार्यः । पञ्चमीभार्यः । दत्ताभार्यः ॥ ५२९ जातिवाचकात्स्वाङ्गवाचकाद्य ईप्तदन्तस्य न पुंवदमानिनि ६४ ॥ ब्राह्मणीभार्यः । सुकेशीभार्यः ॥ अमानिनीति किम् । ब्राह्मणमानिनी ॥ ५३० युवर्जितरक्त विकारार्थवर्जिततद्धितान्तस्य न पुंवत् ६५ ॥ मैथिलीजायः । युडुर्जितरक्तविकारार्थवर्जितेति किम् । वैयाकरणभार्यः । काषायकन्थः । हैममुद्रिकः । वाग्रहणादियं विवक्षा || ५३१ गोः ६६ ॥ गोशब्दस्यान्यार्थे वर्तमानस्य ह्रस्वो भवति ॥ पञ्च गावो यस्यासौ पञ्चगुः ॥ ५३२ संख्यासु व्याघ्रादिपूर्वस्य पादशब्दस्याकारस्य लोपो वक्तव्यः ६७ || सहस्रं पादा यस्यासौ सहस्रपात् । व्याघ्रस्य पादाविव पादौ यस्यासौ व्याघ्रपात् । शोभनौ पादौ यस्य स सुपात् । पादः पत् (सू० २८१ ) द्विपदः । द्विपदा | द्विपदी । त्रिपदी | नदादित्वादीपू ।। ५३३ टाडकाः ६८ ॥ समासे सति ट अ ड क इत्येते प्रत्यया भवन्ति ॥
टच तत्पुरुषे ज्ञेय अकारो द्वन्द्व एव च ।
कारस्तु बहुव्रीहौ ककारो नियमो मतः ॥ ९८ ॥ अचिन्त्यो महिमा यस्य सोऽचिन्त्यमहिमः ॥ ५३४ नो वा ६९ ॥ तान्तस्य पदस्य टेर्लोपो वा भवति खरे यकारे च परे ॥ वाग्रहणाकचिन्न भवति किंतूपधालोपश्च || अहो मध्यं मध्याह्नः । द्वयोरहोः समाहारो व्यह्नः || ५३५ रात्राह्नाहाः पुंसि ७० ॥ एते पुंस्येव स्युः ॥ सर्वरात्रः सर्वाह्नः । त्र्यहः । कवीनां राजा इति कविराजः । टकार ईबर्थः । कविराजी । ष्टितः ( सू० ३७४ ) राज्ञां पूः इति राजपुरम् । अप्रत्ययः । वाक् च मनश्च वाङ्मनसम् । चोः कुः (सू० २८५ ) ञमे अमा वा (सू० ७३ ) । दक्षिणस्यां दिशि पन्थाः इति
१००