SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सू०५३६-५४९] समासप्रकरणम् १६ १०१ दक्षिणापथः । अहश्च रात्रिश्च अहोरात्रम् । डप्रत्ययः ॥ ५३६ अहोरात्रमित्यत्र नपुंसकत्वं वा वक्तव्यम् ७१ ॥ अहोरात्रः। द्वौ च त्रयश्च द्वित्राः । पञ्चषाः । बहुत्वविवक्षायां बहुवचनं जस् । बहवो राजानो यस्यां सा बहुराजा नगरी । अत्र टिलोपे कृते । आबतः स्त्रियाम् (सू० २०३) इत्याप् । कप्रत्ययः । बहवः ब्राह्मणाः कर्तारो यस्यासौ बहुकर्तृको यागः॥ ५३७ कर्मधारयस्तुल्यार्थे ७२॥ पदद्वयतुल्यार्थे एकार्थनिष्ठत्वे सति कर्मधारयसंज्ञकः समासो भवति ॥ नीलं च तदुत्पलं च नीलोत्पलम् । रक्ता चासौ लता च रक्तलता ॥ पुमांश्चासौ कोकिलश्च पुस्कोकिलः ॥ ५३८ पुंसः खपे ख्यावर्जिते च अम्परे संयोगान्तस्यालोपो वक्तव्यः ७३ ॥ तेन पुख्यानं पुंक्षीरं भवति ।। ५३९ नाम्नश्च कृता समासः ७४ ॥ प्रादेरुपसर्गस्य नाम्नश्च कृदन्तेन समासः स तत्पुरुषसंज्ञको भवति ॥ चकारात्कुशब्दस्याव्ययस्य उरीउररीशब्दयोश्विप्रत्ययान्तादेश्च कृदन्तेन समासस्तत्पुरुषो भवति ॥ प्रकृष्टो वादः प्रवादः । कुम्भकारः। सहादेः सादिः ( सू० ५०६)। (सहसंतिरसां सधिसमितिरयः) । सह अञ्चतीति सध्यङ् । समञ्चतीति सम्यङ् । तिरः अञ्चतीति तिर्यङ्॥ क्वचिन्न भवति । सह चरतीति सहचरः॥५४० कुगतिप्रादयः७५॥ कुशब्दो गतिसंज्ञाः प्रादयश्च समर्थेनान्वये समस्यन्ते स तत्पुरुषः ।। कुपुरुषः । कुत्सितमन्नं कदन्नम् ॥ ५४१ कुत्सितेपदर्थयोः ७६ ॥ कुत्सितेषदर्थयोर्वर्तमानस्य कुशब्दस्य का कव कत् इत्येते आदेशा भवन्ति तत्पुरुषे न तु बहुव्रीहौ ॥ बहुव्रीहौ तु कुत्सिता विद्या यस्यासौ कुविद्यः । कुत्सिता उष्ट्रा यस्य स कूष्ट्रः । कुत्सितः पन्था यस्मिन्नसौ कुपथो देशः॥ ५४२ काकवकदुष्णे ७७ ॥ उष्णशब्दे १ सूत्रमेवेदमिति भाति ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy