________________
१०२ सारस्वतव्याकरणम् ।
[वृत्तिः१ परे कुशब्दस्य का कव कत् इत्येते आदेशा भवन्ति ॥ कु ईषदुष्णं कोष्णम्-कवोष्णम्-कदुष्णम् । कु ईषत् लवणं कालवणम् ॥ ५४३ पुरुषे वा ७८ ॥ पुरुषशब्दे परे कुशब्दस्य वा कादेशो भवति तत्पुरुषे ॥
विभाषा पुरुषे का स्थानियमेन हसे परे । अचि त्रिरथवदे कोः ककाक्षे वा पुरुषे पथि ॥ ९९॥ ईषदर्थे च वाच्ये स्युरनावुष्णे काकत्कवाः । कुत्सितास्त्रयः कत्रयः । कद्रथः । कद्वदः । काक्षः । कापथः । कुपथः । कुपुरुषः । कापुरुषः ॥ ५४४ षष उत्वं दधोडेढौ ७९ ॥ षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वा भवतीति वाच्यम् ।। बहुवचनं जस् । जश्शसोर्लक् ( सू० २६४ ) । नाम्नो नो लोपशधौ (सू० २५२ ) षड्भिरधिका दश षोडश । षट्प्रकारमिति षोढा । धासु वा वक्तव्यमिति विकल्पात् षस्योत्वाभावे । षो डः (सू० २७७) इति षस्य डत्वम् । षड्ढा । संख्यायाः प्रकारे धा ( सू० ६७३)। अव्ययाद्विभक्तेलृक् (सू० ३५९) षट् दन्ता यस्य इति विग्रहे ॥५४५ विभक्तिलोपे कृते दन्तस्य दत् ८० ॥ इति दत्रादेशे षोडन् । ५४६ तहतोः करपत्योश्चौरदेवतयोः सुट् तलोपश्च ८१ ॥ बृहतां पतिः बृहस्पतिः । तत् करः तस्करः ॥ ५४७ महतष्टेराकारो भवति समानाधिकरणे ८२ ॥ महांश्चासौ ईश्वरश्च महेश्वरः । ५४८ दिवो द्यावा ८३ ॥ दिवशब्दस्य द्यावादेशो भवति ॥ द्यौश्च भूमिश्च द्यावाभूमी ॥ आकृतिगणोऽयम् ॥ सिद्धं शब्दाकारमुपलभ्य तदनुसारेणादेशविधानं क्रियते यत्र स आकृतिगणः ॥ ५४९ अलुक कचित् ८४ ॥ समासे तद्धिते कृदन्तेऽपि विभक्तेरलुग्भवति ॥ कृच्छान्मुक्तः । अप्सु योनिर्यस्येत्यप्सुयोनिः। उरसि लोमानि