SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सू० ५५०-५६३] समासप्रकरणम् १६ १०३ यस्याऽसौ उरसिलोमः । हृदि स्पृशतीति हृदिस्पृक् । कण्ठेकालः । वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः । इत्यादि । ५५० समासे समानाधिकरणे शाकपार्थिवादीनांमध्यमपदलोपोवक्तव्यः८५॥ शाकप्रियश्चासौ पार्थिवश्व शाकपार्थिवः । देवपूजकश्चासौ ब्राह्मणश्च देवब्राह्मणः ॥ ५५१ आदेश्च द्वन्द्वे ८६ ॥ द्वन्द्वसमासे सति आदिपदस्य लोपो भवति ॥ माता च पिता च पितरौ । दुहिता च पुत्रश्च पुत्रौ । श्वश्रूश्च शुश्वरश्च श्वशुरौ॥५५२ ऋता द्वन्द्वे ८७॥ ऋकारान्तानां द्वन्द्वसमासे सति पूर्वपदस्य वा आकारो वक्तव्यः ।। मातापितरौ ॥५५३ द्वन्द्वे सर्वादित्वं वा ८८ ॥ वर्णाश्च आश्रमाश्चेतरे चवर्णाश्रमेतरे वर्णाश्रमेतराः॥५५४ व्यधिकरणे बहुव्रीहौ मध्यमपदलोपो वक्तव्यः ८९ ॥ कुमुदस्य गन्ध इव गन्धो यस्यासौ कुमुदगन्धिः ॥ ५५५ उपमानाच ९० ॥ उपमानाद्गन्धशब्दस्येकारः स्यात् ॥ हंसस्य गमनमिव गमनं यस्याः सा हंसगमना ॥ ५५६ दिक्संख्ये संज्ञायाम् ९१ ॥ दिग्वाचकसंख्यावाचकशब्दावुत्तरपदतुल्यार्थी संज्ञायां समस्येते स तत्पुरुषः ॥ संज्ञायामिति पदेन नित्यसमासो दर्शितः ॥ अविग्रहो नित्यसमासः ॥ अन्यस्त्ववपदविग्रहोऽपि भवति ॥ विग्रहो द्विविधः। एकः खपदविग्रह एकोऽखपदविग्रहोऽपि भवति ॥ अखपदेन समासव्यतिरिक्तेनापि पदेन विग्रहो वाक्यं यत्र स नित्यः ॥ तेन लम्बौ कौँ यस्य स लम्बकर्णः ॥ दात्रेण छिन्नमिति खपदविग्रहः ॥ अखपदविग्रहो नित्यः । यस्मिन्समासावबोधकं वाक्यं न तिष्ठति स नित्यः । दक्षिणामिः । सप्तग्रामः । इत्यादयो ज्ञेयाः ॥ इति समासप्रकरणम् ॥ १६ ॥
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy