________________
१०४
सारस्वतव्याकरणम् ।
[वृत्तिः१
तडितप्रकरणम् १७ अथ तद्धिता निरूप्यन्ते ॥ ५५७ अपत्येऽण् १ ॥ नानोऽपत्येऽर्थेऽण्प्रत्ययो भवति ॥ उपगोरपत्यं पुमानिति विग्रहे उपगोः अण् इति स्थिते । समासप्रत्यययोः (सू० ४६९) इति षष्ठीलोपः । णकारो वृद्ध्यर्थ ईबर्थश्च ॥ ५५८ आदिस्वरस्य णिति च वृद्धिः २॥ खराणां मध्ये य आदिखरस्तस्य वृद्धिर्भवति मिति णिति च तद्धिते परतः । उकारस्यौकारो वृद्धिः ॥ ५५९ वोऽव्यस्वरे ३ ॥ उकारस्य ओकारस्य च अव् भवति खरे यकारे च परे ॥ कृत्तद्धितसमासाश्चेति नामत्वम् । नामत्वात्स्यादयः । औपगवः । वसिष्ठस्यापत्यं वासिष्ठः । गोतमस्यापत्यं गौतमः। 'शिवादिभ्यश्च' इत्यण वक्तव्यः । अन्यथा उत्रः प्राप्तिः। शिवस्यापत्यं शैवः । विदेहस्यापत्यं वैदेहः ॥ ५६० उरणि ४॥ मातृशब्दस्य ऋकारस्य उर् भवति अणि परे॥षो डः (सू० २७७)। त्वन्मदेकत्वे (सू० ३३१) इति सूत्रनिर्देशात्कचिदपदान्तेऽपि झसानां जमा एष्टव्याः । षण्णां मातृणामपत्यं पाण्मातुरः॥ तिसृणां मातृणामपत्यं त्रैमातुरः । द्वयोर्मात्रोरपत्यं द्वैमातुरः॥५६१ अत इजनृषेः ५॥ अकारान्तानाम्नोऽनृषिशब्दादपत्येऽर्थे इञ्प्रत्ययो भवति ॥ यस्य लोपः (सू० ३६७ ) देवदत्तस्यापत्यं दैवदत्तिः । श्रीधरस्यापत्यं त्रैधरिः । दशरथस्यापत्यं दाशरथिः । पौरन्दरिः । क्वचिदृषिशब्दादपि भवति ॥ तेन औद्दालकिः ॥ ५६२ बहादेश्च ६ ॥ बह्वादेः पर इप्रत्ययो भवत्यपत्येऽर्थे ॥ बहोरपत्यं बाहविः । उपबिन्दोरपत्यमौपबिन्दविः । कृष्णस्यापत्यं काणिः । उडुलोम्नोऽपत्यमौडलोमिः। नो वा ( सू० ५३४) अग्निशर्मणोऽपत्यमाग्निशर्मिः ॥५६३ ण्यायनणेयण्णीया गर्गनडात्रिस्त्रीपितृष्वस्रादेः ७॥ गर्गादेर्नडादेरव्यादेः स्त्रीलिङ्गापितृष्वस्रादेश्च ण्य आयनणू एयण णीय इत्येते प्रत्यया भवन्ति अ