SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सू० ५६४-५७९] तद्धितप्रकरणम् १७ १०५ पत्येऽर्थे यथासंख्येन ॥ चकारात्पितृष्वस्रादेरेयण् प्रत्ययो भवति ॥ गर्गस्यापत्यं गार्ग्यः । वत्सस्यापत्यं वात्स्यः । जमदग्नेरपत्यं जामदग्न्यः । सोमस्यापत्यं सौम्यः । नडस्यापत्यं नाडायणः। चरस्यापत्यं चारायणः। चन्द्रस्यापत्यं चान्द्रायणः । अलुक् क्वचित् ( सू० ५४९) अमुष्यापत्यमामुष्यायणः । यस्य लोपः (सू० ३६७ ) अत्रेरपत्यमात्रेयः । मृकण्डस्यापत्यं मार्कण्डेयः । कपेरपत्यं कापेयः । गङ्गाया अपत्यं गाङ्गेयः । मह्या अपत्यं माहेयः । कचित्स्त्रीलिङ्गादण् भवति ॥ भूमेरपत्यं भौमः ॥ ५६४ मातृपितृभ्यां स्वसा ८॥ मातृपितृभ्यां श. ब्दाभ्यां परस्य खसृशब्दस्य सकारस्य षकारः स्यात्समासे सति ॥ पितुः खसा पितृष्वसा । पितृष्वसुरपत्यं पैतृष्वस्रीयः । मातुः खसा मातृष्वसा । मातृष्वसुरपत्यं मातृष्वस्रीयः॥५६५ ढकि लोपः ९॥ मातृष्वसुरन्तस्य लोपः स्याडकि ॥ अत एव ढक् ॥ ५६६ आयनेयीनीयियः फढखछयां प्रत्ययादीनाम् १० ॥ प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः ॥ आयन् एय् ईन् ईय् इय् एते आयन्नादयः ॥५६७ किति च ११॥ किति तद्धिते परे अचामादरचो वृद्धिः स्यात् ॥ पैतृष्वसेयः ॥ ५६८ मातृष्वसुश्च १२ ॥ पितृष्वसुर्यदुक्तं तदस्यापि स्यात् ॥ मातृष्वसेयः॥ ५६९ मातृपितृभ्यां पितरि डामहचू १३ ॥ आभ्यां परो डामह प्रत्ययो भवति ॥ मातुः पिता मातामहः ॥ पितुः पिता पितामहः॥ ५७० लुग्बहुत्वे कचित् १४ ॥ अपत्येऽर्थे उत्पन्नस्य प्रत्ययस्य बहुत्वे सति कचिदनृषिविषये ऋषिविषये च लुग्भवति ॥ गर्गस्यापत्यानि पुमांसो गर्गाः । बहुत्वविवक्षायां जस् । अत्रेरपत्यानि अत्रयः। ए ओ जसि ( सू० १५९) विदेह स्यापत्यानि विदेहाः ॥५७१ भृग्वत्रिकुत्साङ्गिरोवसिष्ठगोतमदेशतुल्याख्यक्षत्रियेभ्यः परस्य प्रत्ययस्य
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy