________________
१०६
सारस्वतव्याकरणम् ।
[ वृत्ति: १
लुग्भवति १५ ॥ भृगवः । कुत्साः । वसिष्ठाः ॥ ५७२ देवतेदम १६ ॥ देवतार्थे इदमर्थे चोक्ताः प्रत्यया भवन्ति ॥ इन्द्रो देवता यस्येत्यैन्द्रं हविः । सोमो देवता यस्येति सौम्यं हविः । देवदत्तार्थमिदं दैवदत्तं वस्त्रम् ॥ ५७३ क्वचिद्वयोः १७ ॥ क्वचित्पूर्वोत्तरपदादेरचो वृद्धिर्भवति णिति णिति च तद्धिते परे ॥ अभिमरुतौ देवते यस्य तदाग्निमारुतं कर्म । सुष्ठु हृदयं यस्यासौ सुहृत् । सुहृदो भावः सौहार्दम् । अत्र भावेऽणू वक्तव्यः ॥ सुष्ठु भावः सौष्ठवम् । अत्र सुष्ठु अव्ययम् । एवमेव अव्ययं तिष्ठति । सुभगस्य भावः सौभाग्यम् ॥ ५७४ णितो वा १८ ॥ उक्ता वक्ष्यमाणाश्च प्रत्यया विषयान्तरे णितो वा भवन्ति ॥ अजो गौर्यस्यासावजगुः शिवः । गो: ( सू० ५३१ ) इति ह्रखः । वोव्यखरे ( सू० ५५९ ) तस्येदं धनुराजगवं - अजगवं वा । कुमुदस्येव गन्धो यस्याः सा कुमुदगन्धिः । तस्या अपत्यं स्त्री कौमुदगन्ध्या वा कुमुद्गन्ध्या । आवतः स्त्रियाम् ( सू० २०३ ) इत्याप् । श्वशुरस्यायं वाशुय ग्रामः । विष्णोरिदं वैष्णवम् । गोरिदं गव्यम् । कुले भवं कुल्यम् । तवेदं त्वदीयम् । ममेदं मदीयम् । अत्र णीयप्रत्ययो न णित् ॥ ५७५ चतुरश्र लोपो यणीययोः १९ ॥ चतुराब्दस्य चकारस्य लोपो भवति ण्यणीययोः प्रत्यययोः परतः ॥ ५७६ पूरणेऽर्थे ण्यणीयौ भवतः २० ॥ चतु संख्यापूरकं तु तुरीयम् ॥ ५७७ अन्यस्य दक् २१ ॥ अन्यशब्दस्य दगागमो भवति णीयप्रत्यये परे ॥ अन्यस्येदमन्यदीयम् । अर्धं जरद्यस्याः सार्धजरती । अर्धजरत्या इदमर्धजरतीयम् ।। ५७८ स्वपरयोः कक् २२ ॥ खकीयम् । परकीयम् ॥ ५७९ कारकाक्रियायुक्ते २३ ॥ कारकादप्येते अणादयः प्रत्यया भवन्ति क्रियायुक्ते कर्तरि कर्मणि चाभिधेये ॥ कुङ्कुमेन रक्तं वस्त्रं कौङ्कुमम् ।