SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सू० ५८०-५९२] तद्वितप्रकरणम् १७ १०७ मथुराया आगतो जातो वा माथुरः । ग्रामे भवो ग्राम्यः ग्रामीणः । धुरं वहतीति धुर्यः-धौरेयः ॥ ५८० केनेयेकाः २४ ॥ क ईन इय इक एते प्रत्यया भवन्ति भवाद्यर्थेषु ॥ णित्वं चैषां वैकल्पिकम् । कर्णाटे भवः कार्णाटकः-कर्णाटकः । ग्रामादागतस्तत्र जातो वा ग्राम्यः-ग्रामीणः । अञ्चेर्दीर्घश्च (सू० २८६ ) सध्रीचि भवो वा सध्रीचा युक्तः सध्रीचीनः । समीचि भवो वा समीचा युक्तः समीचीनः । तिरश्चादयो निपात्यन्ते ( सू० २८८ ) तिरश्चि भवो वा तिरश्चा युक्तस्तिरश्चीनः । उदीचि भवो वा उदीचा युक्तः उदीचीनः। ५८१ यलोपश्च २५ ॥ कन्यादीनामन्त्ययकारस्य लोपो भवति यकारे खरे परे । कन्यादीनामुपधायाः क्वचिद्यकारस्य लोपो भवति खरे यकारे च तद्धिते परे । यस्य लोपः (सू० ३६७) कन्यायां भवः कानीनः । पुष्येण युक्ता पौर्णमासी पौषी ॥ ५८२ नक्षत्रादण् वक्तव्यः २६ ॥ अणन्तादीप् । पौष्यां भवः पौषीणः । चातुर्मास्यं व्रतमाचरतीति चातुर्मासिकः।।५८३ इयो वा २७ ॥ क्षत्रशब्दाद्वा इयप्रत्ययो भवति ॥ क्षतात्रायते इति क्षत्रम् । क्षत्राद्या निपात्यन्ते । क्षत्रे भवः क्षत्रियः । क्षात्रः ॥ ५८४ क्षत्रशब्दादण वक्तव्यः २८ ॥ शुक्रो देवता यस्य तच्छुक्रियम् शौक्रम् । इन्द्रो देवता यस्येत्यैन्द्र-इन्द्रियम् । अक्षैर्दीव्यतीत्याक्षिकः । तर्के चतुरः तार्किकः । शब्दे कुशलः शाब्दिकः । वेदे भवा वैदिकी । अत्रेकोऽग्वत्कार्यः ॥ ५८५ त्यतनौ २९ ॥ त्यश्च तनश्च त्यतनौ । किमादेरद्यादेर्भवाद्यर्थे त्यतनौ प्रत्ययौ भवतः । कुत्र भवः कुत्रत्यः । कुतो भवः कुतस्त्यः । अद्य भवोऽद्यतनः । तत्र भवस्तत्रत्यः । ततो भवस्ततस्त्यः। अत्र भवोऽत्रत्यः । अतो भवोऽतस्त्यः। सदा भवः सदातनः। १ वृत्तिद्वयमपि समानसूत्रकं ज्ञेयम् । -
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy